________________
आगम (४०)
[भाग-3] “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) १
अध्ययनं [-1, नियुक्ति: [-], भाष्यं -1, विभा गाथा [५३,५५], मूलं [-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्तिः ।
R
प्रत
सूत्रांक
दीप अनुक्रम
पतिः साक्षादालिखित इत्यादि, द्रष्टुब तदाकारदर्शनात् प्रत्ययो यथाऽयमिन्द्रो वर्तत इति, प्रणतिकृतश्च फलार्थिनः स्तोत्र प्रवर्तते, फलं च किश्चिदभीष्ट देवतानियोगात् प्राप्नुवन्ति, न तथा नामेन्द्रे नापि द्रव्येन्द्र, ततो नामद्रव्याभ्यामित्थं | स्थापनाया विशेषः, सच-"आगारोऽभिष्पाओ बुद्धी किरिया फलं च पाएणं । जह दीसह ठवर्णिद न तहा नामे न दविंदे ॥१॥" (भा०५३) यथा स द्रव्येन्द्रो भावेन्द्र कारणतां प्रतिपद्यते प्रतिपन्नवान् वा भावेन्द्रता उपयोगापेक्षायामपि तदुपयोगतामासादयिष्यति अवाप्तवान् वा न तथा नामेन्द्रो नापि स्थापनेन्द्र इति नामस्थापनाभ्यां द्रव्यस्य विशेषः, स्थापनाद्रव्यलक्षणव्यतिरिक्तस्वरूपं तु नामेति द्रव्यस्थापनाभ्यां नानो विभिन्नता, अपरस्त्वाह-भावमझलमेवैकं भावानामेवार्थक्रियाकारित्वात् गे तु नामादयस्ते सङ्कल्पमात्रसम्पादितसत्ताका इति किं तेषामुपन्यासेन', तदेतदसम्यक्, नामादीनामपि भाववत्, तात्त्विकत्वात् तेषामपि भाववदविशेषेण शब्दतः प्रतीतेः, तथाहि-अविशिष्टे इन्द्रवस्तुन्युच्चरिते नामादिचतुष्टयमविशेषेण प्रतीतिमासादयति, किमनेन नामेन्द्रो विवक्षितः आहोश्चित् स्थापनेन्द्रो द्रव्येन्द्रो भावेन्द्रो वा इति !, ततो यथा घट इत्युक्ते कोऽनेन घटो विवक्षितो रक्तः कृष्णः शुक्ल: नीलो वेति शब्दता प्रतीयमानाः सर्वेऽपि तात्त्विकास्तथैते नामादयोऽपीति, तथा च एतदेव साक्षेपपरिहारं भाष्यकृदाह-"इह भावोचिय वत्थु तदत्थसुन्नेहिं किं नु सेसेहिं । नामादओऽवि भावा जं तेऽविहु वरथुपजाया ॥१॥" (भा०५५) अत्र 'वत्थुपज्जाया इति इन्द्रादिरूपस्य सामान्यवस्तुनो विशेषाः, इतश्च नामस्थापनाद्रव्याणि तात्त्विकानि भावमङ्गलाङ्गत्वात्, तदङ्गता तत्परिणामकारणत्वात् , तवाहि-मनालाभिषानं सिद्धामभिधान चोपभुल्य भगवदहत्प्रतिमा वा ना भूतबतिभावं भव्य
Fare L Faro
~41