SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] [भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) १ अध्ययनं [-], निर्युक्ति: [ - ], भाष्यं [-] वि० भा० गाथा [४९, ५०], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः उपोद्घाते ॥९॥ अन्यथा उज्ज्ञाने सत्यप्यसौ नोपलभेत अतन्मयत्वात्, प्रदीपहस्तान्धवत् पुरुषान्तरवद्वा, बन्धाद्यभावप्रसङ्गव, ज्ञाना. ज्ञानसुखदुःखपरिणामशून्यत्वात्, आकाशवत्, न खल्वाकाशं ज्ञानाज्ञानसुखदुःख परिणामरहितं बन्धमोक्षाम्यां युज्यते, तस्मात्कथश्चिदव्यतिरेको ज्ञानज्ञानिनोः, न च निराकारं ज्ञानं, अनाकारत्वे पदार्थान्तरवत् विवक्षितस्यापि पदार्थस्य परिच्छेदाप्रसक्तेः, तदाकारशून्यत्वाविशेषात् ततो ज्ञानस्यायाकारत्वात्तदव्यतिरिक्त आत्माऽप्यश्याकार इत्यग्निर्माणवकः, न चैवं दहनपचनप्रकाशनाद्यर्थक्रियाप्रसक्तिः, सर्वस्याग्नेर्दहनाद्यर्थक्रियाप्रसाधकत्वायोगात् भस्मच्छन्नाग्निना व्यभिचारादिति, नोआगमतो भावमङ्गलं 'सुविशुद्धः क्षायिकादिको भावः', नोशब्दोऽत्र सर्वनिषेधवाची, उक्तं च- मङ्गलसुयडवउत्तो | आगमओ भावमङ्गलं होइ । नोआगमओ भावो सुविसुद्धो खाइयाईओ ॥ १ ॥” ( भा० ४९ ) अथवा - नोआगमतो | भाषमङ्गलमागमवर्ज ज्ञानचतुष्टयं सर्वनिषेधवचनत्वान्नोशब्दस्य, यदिषा यः सम्यग्दर्शन ज्ञान चारित्रपरिणामः स न आगम एव केवलो नाप्यनागमः किन्त्वागमसम्मिश्र इति नोआगमतो भावमङ्गलं, नोशब्दोऽत्र मिश्रवचनः, आह च" ( अहवा ) सम्मद्दंसणनाणचरिचोवयोगपरिणामो । नोआग़मओ भावो नोसो मीसभावंमि ॥ १ ॥” ( भा० ५० ) यदिवा यो भगवदर्हनमस्काराद्युपयोगः स खल्वागमैकदेशो, विवक्षिताध्ययनाद्यपेक्षया तस्यैकदेशत्वात्, ततो नोशब्दस्य देशवाचित्वात् नोआगमतः स भाषमङ्गलं । ननु नामस्थापनाद्रव्येषु मङ्गलाभिधानं विवक्षितभावशून्यत्वात् द्रव्यत्वं च सम्मानमतः क एषां प्रतिविशेषः १, उच्यते, इह यथा स्थापनेन्द्रे लोचनसहस्रकुण्डलकिरीटकर कुलिशधारणशचीसन्निधानसिंहासनाभ्यासनादिजनितातिशयः खस्मिन्द्राकारो लक्ष्यते, कर्तुच सद्भूतेन्द्राभिप्रायो भवति यथाऽयं मया स्वर्गाधि For Pruate & Personal Use Orty ~40~ भावमङ्गलम् #S.0 janelibrary
SR No.035063
Book TitleSavruttik Aagam Sootraani 2 03 Aavashyak Niryukti evam Vrutti Aagam 40 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy