SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-3] “आवश्यक - मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) १ अध्ययनं [-1, नियुक्ति: [-], भाष्यं -1, वि०भा०गाथा [२५,२९], मूलं [-/गाथा-] (४०) सपोद्धाते ॥६॥ स्थापनादव्यलक्षणं प्रत सूत्रांक - चानुयोगदारे-"नाम आवकहियं ठवणा इत्तरिया वा होज्या आवकहिआ वा"भाष्यकारोऽप्याह-"जंपुण तयत्वसुन्न तय- भिप्पारण तारिसागारं । कीरइ व निरागारं इत्तरमियरं व साठवणा॥"(भा. २५)। सम्पति द्रव्यमङ्गलभिधातव्यं, तत्र द्रव्यमिति-द्रवति गच्छति तांस्तान् पर्यायानिति द्रव्यं, 'कृद्धहुल'मिति वचनात् कर्तरि यः, द्रव्यं च तन्मङ्गलं च द्रव्यमगलं, तल्लक्षणमिदम्-"भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके। तद् द्रव्यं तत्त्वज्ञैःसचेतनाचेतनं कथितम् ॥१॥" अस्यायमर्थः-भूतस्य-अतीतस्य भाविनो वा-एष्यतः भावस्य-पर्यायस्य कारणं-निमित्तं यदस्मिन् लोके तत् तत्त्वज्ञैःसर्वज्ञैः तीर्थकृद्भिरितियावत् द्रव्यं कथितं, द्रवति-च्छति तांस्तान् पर्यायान् अग्रेतनान् प्राचीनांश्च मुञ्चतीति द्रव्यमिति व्युत्पत्त्यर्थानुगमात्, तच्च द्विधा-सचेतनमचेतनं च, तत्र सचेतनं अनुपयुक्तपुरुषाख्यं, अचेतनं ज्ञशरीरादीति, उकं द्रव्यलक्षणम् , अधुना प्रकृतमुपयुज्यते, द्रव्यमङ्गलं द्विधा-आगमतो नोआगमतश्च, तत्र आ-समन्तात् गम्यते वस्तुतत्त्वमनेनेत्यागमः-श्रुतज्ञानं आगममधिकृत्यागमतः, 'स्थानियपः कर्माधारें' इति कर्मणि पञ्चमी, यथा प्रासादमारुह्य प्रेक्षते इत्यर्थे प्रासादात् प्रेक्षते इत्यत्र, आगमापेक्षयेति भावार्थः, आगमस्याभावः आगमस्य एकदेशो वा आगमेन सह मिश्रणं वा नोआगमा, नोशब्दस्य त्रिष्वप्यर्थेषु वर्तमानत्वात् , नोआगममधिकृत्य नोआममतः, तत्र आगमतो मङ्गलशब्दार्थज्ञाता तत्र चानुपयुक्तः, स हि मङ्गलशब्दार्थवासितान्तःकरणतया तज्ज्ञानलब्धिसहितो नोपयुक्त इति 'अनुपयोगो द्रव्य'मिति वचनात् द्रव्यम्, आह च भाष्यकृत्-"आगमओऽणुवउत्तो मंगलसद्दाणुवासिओ वत्ता । तन्नाणलद्धिसहिओऽवि नोवउचोति तो दवं ॥१॥"(भा. २९) नवागमो मङ्गलशब्दार्थपरिज्ञानमागमः श्रुतज्ञानमिति पूर्वमभि दीप अनुक्रम ROKAR E ॥६॥ JanEducation inNKA ~34~
SR No.035063
Book TitleSavruttik Aagam Sootraani 2 03 Aavashyak Niryukti evam Vrutti Aagam 40 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy