________________
आगम
[भाग-3] "आवश्यक"- मूलसूत्र
अध्ययनं H, नियुक्ति: [१३३], भाष्यं , विभा गाथा , मूलं - /गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [९] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्तिः ।
प्रत
सूत्रांक
योजनीयाः । तदेवं तावद्विभाग उक्तः, सम्पति द्वारविधिमवसरप्रातमपि विहाय व्याख्यानविधिः प्रतिपाद्यते, अथ चतुरनुयोगद्वारानधिकृत एव व्याख्यानविधिस्ततः किमर्थ प्रतिपाद्यते इति !, उच्यते, शिष्याचार्ययोः सुखश्रवणसुखव्याख्यानप्रवृत्त्या शास्त्रोपकारार्थम् , अथवा चतुरनुयोगद्वाराधिकृत एव व्याख्यान विधिः, अनुगमेऽन्तर्भावाद्, अन्तर्भावश्च व्याख्याङ्गत्वादित्यभिहितमेतत् प्रागपि, आह-यद्यसावनुगमा ततः किमवतार्य द्वारविधेः प्राक् प्रतिपाद्यते ।, उच्यते, इह द्वारविधिरपि बहुवतव्यस्ततो मा भूदिहापि व्याख्यानविधिविपर्यय इत्यत्रैवाचार्यशिष्ययोगुणदोषाः प्रतिपाद्यन्ते, येनाचार्यों गुणवते शिष्यायानुयोगं करोति, शिष्योऽपि गुणवदाचार्यसन्निधावेव शृणोतीति, ननु यदि व्याख्यानविधिरनुगमाङ्गत्वादिहावतार्य प्रोच्यते तहिं द्वारगाथायामप्येवं कस्मान्नोपन्यस्तः, उच्यते, सूत्रव्याख्यानस्य गुरुत्वख्यापनार्थ, यथा विशेषतः सूत्रव्याख्यायामाचार्य: शिष्यो वा गुणवान् अन्वेष्टव्यः, इत्यलं विस्तरेण । व्याख्यानविधि प्रतिपादयति
गोणी चंदणकंथा चेडीओ सावए बहिरगोहे । टंकणओ ववहारो पडिवक्खे आयरिय-सीसे ॥१३३ ॥ ___ आचार्य शिष्ययोर्योग्यायोग्यविचारे गौणी-गोस्तदुदाहरणं वक्तव्यम् , तथा चन्दनकन्था तथा व्या-जीर्णाभिनवश्रेष्ठिपुत्रिके, तथा श्रावकः तथा वधिरगोहा-बधिरपुरुषः तथा टंकणव्यवहारः षष्ठ उदाहरणम्, एतेषु षट्सूदाहरणेषु शिष्याचार्ययोः साक्षादयोग्यत्वमभिधाय ततः प्रतिपक्षे योग्यत्वं योजनीयं, योग्यत्वं वा साक्षादभिधाय ततः प्रतिपक्षेs-IN योग्यत्वमायोज्यम् , अथवा एषां षषणामुदाहरणानां मध्ये योग्यत्वायोग्यत्वयोः क्रमेणैकमुदाहरणमाचार्यस्य एक शिष्य
-ENRA%AEE55
दीप अनुक्रम
म.स.१४
JanEducation.ireema
For
a From Us
~299~