SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] [भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्ति:+वृत्तिः) १ अध्ययनं [-], निर्युक्तिः [ १३२ ], भाष्यं [-] वि० भा० गाथा [१४२६-१४२७], मूलं [- /गाथा -] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः उपोद्घातनिर्युक्तिः ॥ १३८ ॥ यथा समभावः सामायिकमिति, विभाषकस्तु तस्यैवानेकधा अर्थमभिधत्ते, यथा समभावः सामायिकं समानां वा ज्ञानदर्शनचारित्राणां वाऽऽयः समायः समाय एव सामायिक, स्वार्थे इकण्प्रत्यय इत्यादि, तथा व्यक्तिकरणशीलो व्यक्तिकरः, यः खलु निरवशेषव्युत्पत्ति अतिचारानतिचारफलादिभेदभिन्नमर्थं भाषते स व्यक्तिकर इति भावः, स च निश्चयतः चतुर्द्दशपूर्वधर एव, इह भाषकादिस्वरूपान्वाख्यानात् भाषादय एव प्रतिपादिता द्रष्टव्याः, भाषादीनां तत्प्रभवत्वात् उक्तं च- 'पढमो रूवागारं धूलावयवोवदंसणं बीओ । तइतो सवावयवो निद्दोसो सबहा कुणइ ॥ १ ॥ कट्ठसमाणं सुतं तदत्थख्वेगभासणं भासा । थूलट्ठाण विभासा सबेसिं वत्तियं नेयं ॥ २ ॥ (वि. १४२६-७) सम्प्रति पुस्तविषयो दृष्टान्तः, यथा पुस्ते कश्चिदाकारमात्रं करोति, कश्चित्परिस्थूलावयव निष्पत्तिं, कश्चित्वशेषावयवनिष्पत्तिमिति, दान्तिकयोजना प्राग्वत् । इदानीं चित्रविषयो दृष्टान्तः, यथा चित्रकर्म्मणि कश्चिद्वर्त्तिकाभिराकारमात्रं करोति, कश्चित् हरितालादिवर्णोद्भेदं कश्चित्त्वशेषपर्यायैर्निष्पादयति, दार्शन्तिकयोजना पूर्ववत् । श्रीगृहिकोदाहरणम् - श्रीगृहं भाण्डागारं तदस्यास्त्रीति 'अतोऽनेकस्वरा' दिति इकप्रत्ययः, तद्दृष्टान्तभावना इयम् - कश्चिद्रलानां भाजनमेव वेत्ति, इह भाजने रक्तानि सन्तीति, कचिज्जातिमानादि, कश्चित्पुनर्गुणानपि एवं प्रथमद्वितीयतृतीयकल्पा भाषकादयो द्रष्टव्याः । तथा 'बोण्ड' मिति पद्मं तद्यथा ईषद्भिन्नमर्द्धभिन्नं विकसितरूपमिति त्रिधा भवति, एवं भाषाद्यपि क्रमेण योजनीयम् । इदानीं देशिकविषयमुदाहरणं, देशनं देशः - कथनमित्यर्थः सोऽस्यास्तीति देशिकः, यथा कश्चिदेशिकः पन्थानं पृष्टः सन् दिग्मात्रमेव कथयति, कश्चिचद्व्यवस्थितग्रामनगरादिभेदेन कश्चित्पुनस्तदुत्थगुणदोषभेदेन कथयति, एवं भाषादयोऽपि क्रमेण For Pevate & Personal Use Only ~298~ भाषकादिस्वरूपम् ॥ १३८ ॥ janelibrar
SR No.035063
Book TitleSavruttik Aagam Sootraani 2 03 Aavashyak Niryukti evam Vrutti Aagam 40 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy