SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-3] “आवश्यक - मूलसूत्र-१ (नियुक्ति:+वृत्ति:) १ अध्ययनं -1, नियुक्ति: H], भाष्यं -1, विभा गाथा -1, मूलं [-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्तिः । प्रत सूत्रांक H-1 दीप अनुक्रम H 4-28 मङ्गलकरणसमर्थत्वात् स्वं परं च मङ्गलयतीति न कश्चिद्दोषः, द्वितीयपक्षेऽपि न मङ्गलोपादाननरर्थक्य, शिष्य-12 मतिमङ्गलपरिग्रहाय शास्त्रस्यैव मङ्गलत्वानुवादात्, तथाहि-कथं नु नाम विनेयो मङ्गलमिदं शावमित्येवं गृह्णीयादिति मङ्गलोपन्यासेन मङ्गलमिदं शास्त्रमिति प्रबोध्यते, न चैवमनवस्था, प्रथममङ्गलोपन्यासे च शिष्यमतिमङ्गलपरिग्रहस्य कृतत्वात् अन्यमङ्गलाकाङ्क्षाया निवृत्तेः, न च शास्त्रस्यामङ्गलत्वप्रसक्तिः, अन्यमङ्गलनिरपेक्षस्य तस्य स्वतो मङ्गलत्वात् , मङ्गलं ह्यन्यदुपादीयते न शाखस्य मङ्गलवकरणाय, तस्य स्वत एव मङ्गलत्वात्, किन्तु , शिष्यमतिमालपरिग्रहाय, ततः कथमन्यमङ्गलोपादानेऽनवस्थानिष्टौ शास्त्रस्यामङ्गलत्वमिति, ननु यदि शाखं स्वतो | मङ्गलं तर्हि यद्यपि मालमिदं शास्त्रमित्येवं न गृह्णाति विनेयस्तथापि तत्स्वकार्यप्रसाधनसमर्धमेव, तस्य तथारवभावत्वादिति कथमभ्यमलोपादानं न निरर्धक मिति?, तदेतदसम्यक्, अभिप्रायापरिज्ञानात्, इह विचित्रा भावानां शक्तयः, किश्चित्तथास्वरूपेण गृह्यमाणं स्वकार्यप्रसाधनसमर्थ यथा सुवर्ण, सुवर्ण हि सुवर्णरूपतया परिगृह्यमाणं है। स्वफलप्रदानसमर्थ न लोछादिरूपतयेति, किश्चित्तथास्वरूपेणागृह्यमाणमपि यथा किञ्चिदनिष्टमन्तःसमुत्थव्याध्यादिकं, तद्धि तथास्वरूपेणाविदितमपि स्वफलं दुःखमुत्पादयति, मङ्गलमपि मङ्गलबुया परिगृह्यमाणं मङ्गलफलसाधनायालं नान्यथा साधुवत् , तथाहि-साधुः सम्यग्दर्शनज्ञानचारित्रपरिणामपरिणतो भावितात्मा शान्तिनिधानं 'समणं संजयं दंत' मिति वचनात् मङ्गलभूतोऽपि मङ्गलबुड्यैव परिगृह्यमाणः सन् प्रशस्तचेतोवृत्ते व्यस्य मङ्गलकार्यप्रसाधको भवति, यदि तु तथा न गृह्यते वहिं तस्य कालुप्योपहतचेतसः सत्वस्य न भवतीति, एवं शाखमपि स्वतो मङ्गलमपि सत् PRIMiganelibrary.org ~29~
SR No.035063
Book TitleSavruttik Aagam Sootraani 2 03 Aavashyak Niryukti evam Vrutti Aagam 40 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy