________________
आगम (४०)
[भाग-3] “आवश्यक - मूलसूत्र-१ (नियुक्ति:+वृत्ति:) १
अध्ययनं -1, नियुक्ति: H], भाष्यं -1, विभा गाथा -1, मूलं [-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्तिः ।
प्रत सूत्रांक
दीप अनुक्रम
उपोद्घातेस्य मङ्गलमुच्यते एवं मङ्गलान्तरमपि वक्तव्यम् , आद्यमङ्गलाभिधानेऽपि तस्य तथैवामङ्गलत्वात् , एवं मालान्तराभिधानेऽप्य- मंगलत्रय
न्यन्मङ्गलान्तरमभिधातव्यं, न्यायस्य समानत्वात् , तत्राप्यन्यदित्यनवस्था, अथाभिन्नमिति पक्षः तहिं शास्त्रमेव मङ्गलस्यावश्य|मित्यन्यमङ्गलोपादानमनर्थक, अमङ्गले हि मङ्गलमुपादीयते, यस्तु स्वत एव मङ्गलं तत्र किं मङ्गल विधानेन ?, नहि शुक्लं
कता शुक्लीक्रियते, नापि स्निग्धं स्नेह्यते, अथ मङ्गलभूतस्याप्यन्यन्मङ्गलमुपादीयते तर्हि तेनापि मङ्गलीभूतस्यान्यन्मङ्गलमुपा-8 ददातव्यं, मङ्गलरूपत्वाविशेषात्, तत्राप्यन्यदित्यनवस्था, अथ मा भूत् प्रस्तुतार्थक्षितिरित्यनवस्था नेष्यते तर्हि शास्त्र
स्थामङ्गलत्वप्रसङ्गः, कथमिति चेत्, उच्यते, इह यथा शास्त्रं स्वतो मङ्गलमपि अन्यमङ्गलनिरपेक्षममङ्गलं, अन्यथा
अन्यमङ्गलोपादाननैरर्थक्यपसक्के, यदि हि अन्यमङ्गलनिरपेक्षमपि तन्मङ्गलं भवेत् तहि नान्यमङ्गलमपेक्षेत, स्वतः समर्थ-18 है स्यान्यव्यपेक्षाया अयोगात्, अन्यमङ्गलव्यपेक्षा चेत् नूनममङ्गलता, तस्य स्वरूपत एव मङ्गलस्याप्यन्यमङ्गलशून्यस्यामङ्गलते
ति, अनवस्थाऽनिष्टौ मङ्गलममङ्गलं, तद्योगाच्छास्त्रमप्यमङ्गलमित्यमङ्गलता शास्त्रस्येति, अत्रोच्यते, इहाद्यः पक्षस्तावनाभ्युपगम्यते, ततोऽनभ्युपगमतिरस्कृतत्वादेव न नः क्षितिमावहति, यदिवा सोऽप्यभ्युपगम्यते, न च प्रागुक्तदो-18 पावकाशः, यतो द्विविधानि जगति वस्तुनि-भाव्यानि अभाव्यानि च, तत्र काचादीन्यभाव्यानीति न तानि वैडूर्यरूपतया कर्तुं शक्यन्ते, शास्त्राणि तु भाव्यानि, ततः स्वरूपेणामङ्गलान्यपि तानि मङ्गलरूपतया परिणम्यन्ते, मङ्गलस्य स्वपरतद्रूपताऽऽपादने समर्थत्वात् , लवणप्रदीपादिवत् , यथा हि प्रदीपः स्वपरप्रकाशनसमर्थत्वात् स्वं परं च प्रकाशयति, यथा वा लवणं स्वपरलवणिमस्वभावापादने समर्थतया स्वं परं च लवणयति, एवं मङ्गलमपि स्वपर
~28~