________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) १
अध्ययनं [-], निर्युक्ति: [ १२६], भाष्यं [-] वि० भा० गाथा [-], मूलं [- / गाथा-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
व्याख्यानविधेरुपन्यासो निरर्थकः, तदयुक्तम्, अनुगमाङ्गतया निरर्थकत्वायोगात्, अनुगमाङ्गता च व्याख्याङ्गत्वादिति, तत्र जिनप्रवचनोत्पत्तिर्निर्युक्तिसमुत्थानप्रसङ्गतोऽभिहिता, अर्हद्वचनत्वात् प्रवचनस्य, आह च 'सुगमिह जिणप्पवयणं तस्सुप्पत्ती पसंगतोऽभिहिया' इति ॥ सम्प्रति प्रवचनैकार्थिकानि तद्विभागं च प्रतिपादयन्नाह - ( प्रन्धायं ५००० )
एमट्टियाणि तिनि उ पवयण सुसं तहेव अत्थो य । एक्केकरस य एत्तो नामा एगट्टिया पंच ॥ १२६ ।। एकोऽर्थो येषां तान्येार्थिकानि त्रीण्येव, कानि पुनस्तानीत्यत आह-प्रवचनम् उक्तशब्दार्थ सूचनात्सूत्रं अर्थते इत्यर्थ:-अभिधेयं, चः समुच्चये, अत ऊर्द्ध एकैकस्य-प्रवचनस्य सूत्रस्य अर्थस्य च नामान्येकार्थिकानि पञ्च, इह प्रवचनं सामान्यं श्रुतज्ञानं, सूत्रार्थी तु तद्विशेषौ उक्तं च---" जमिह पगयं पसत्थं पहाणवयणं च पवयणं तं च । सामन्नं सुयनाणं | विसेसतो सुत्तमत्थो य ॥ १ ॥ (वि. १३६७)" आह- सूत्रार्थयोः प्रवचनेन सहैकार्थता युक्ता, तयोस्तद्विषयत्वात्, सूत्रार्थी च परस्परविभिन्नौ, तथाहि - सूत्रं व्याख्येयमर्थस्तु तद्व्याख्यानमिति, अथवा त्रयाणामध्येषां भिन्नार्थतैव युक्त्युपपन्ना, | प्रत्येक मे कार्थिक विभाग सद्भावात्, घटपटशकटवद्, अन्यथा एकार्थतायां सत्यां मेदेनैकार्थिकाभिधानमयुक्तं, घटकुम्भयोरिबेति, अत्रोच्यते, इह यथा मुकुल विकसितयोः पद्मविशेषयोः सङ्कोच विकाशरूपपर्यायभेदेऽपि कमल सामान्यरूपत्वेनाभेदः तथा सूत्रार्थयोरपि प्रवचनापेक्षया परस्परतश्चाभेदः, तथाहि अविवृतं मुकुलतुल्यं सूत्रं तदेव विवृतं प्रबोधितं विकचकल्पमर्थः, प्रवचनं तूभयमपि, यथा च तेषां कमलसङ्कोचविकाशानामेका र्थिक विभाग उपलभ्यते, कमलमरविन्दं पङ्कज| मित्यादि पद्मकार्थिकानि तथा मुकुलं तं सङ्कुचितमित्यादीनि मुकुलैकार्थिकानि तथा विकचं फुलं विबुद्धमित्यादीनि
For Pruate & Personal Use Orty
~279~
www.janelibrary.org