________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) १
अध्ययनं [-], निर्युक्ति: [ ११४, ११५], भाष्यं [-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०]
.२१
वि० भा० गाथा [-] मूलं [- /गाथा - ]
मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
परिहारविशुद्धिककल्पप्रतिपत्त्यसम्भवाद्, अतीतनयमधिकृत्य पुनः पूर्वप्रतिपन्नश्चिन्त्यमानः सवेदो वा भवेदवेदो वा, तत्र | सवेदः श्रेणिप्रतिपत्त्यभावे, उपशमश्रेणिप्रतिपत्तौ क्षपकश्रेणिप्रतिपत्तौ वा त्ववेद इति, उक्तं च "वेदो पविधिकाले इत्थीवज्जो य होइ एगयरो। पुवपडिवन्नगो पुण, होज्ज सवेदो अवेदो वा ॥ १॥ (पंचव. १४९७)” कल्पद्वारे स्थितकल्प एवायं, नास्थितकल्पे, 'ठियकष्पंमि य नियमा' इति वचनात्, तत्र 'आचेलकु १ देसिय २ सिजायर ३ रायपिंड ४ किइकम्मे ५ । वय ६ जेठ्ठ ७ पडिकमणे ८ मासं ९ पज्जोसवणकप्पे १० ॥ १ ॥ (पंच. १५०० ) इत्येवंरूपेषु दशसु स्थानेषु ये स्थिताः | साधवस्तेषां कल्पः स्थितकल्पः, ये पुनः - " सेज्जायरपिंडंमी चाउज्जामे य पुरिसजेट्टे य। किइकम्मस्स य करणे चत्तारि | अवट्टिया कप्पा ॥ १ ॥ । इत्येवंरूपेषु चतुर्ष्ववस्थितेषु कल्पेषु स्थिताः शेषेषु चाचेळक्यादिषु षट्सु अस्थितास्तत्कल्पो|ऽस्थितकल्पः उक्तं च- "ठिय अट्ठितो य कप्पो, आचेलकाइपसु ठाणेसु । सबेसु ठिया पढमो चउठिय सु अट्ठिया बीओ ॥ १ ॥" ( पंच. १४९९ ) लिङ्गद्वारे नियमतो द्विविधेऽपि लिने भवति, तद्यथा-द्रव्यलिङ्गे भावलिङ्गे च, एकेनापि विना || विवक्षितकल्पोचित सामाचार्ययोगात्, लेश्याद्वारे तेजःप्रभृतिकासु उत्तरासु तिसृषु विशुद्धासु लेश्यासु परिहारविशुद्धिकं कल्पं प्रतिपद्यन्ते, पूर्वप्रतिपन्नः पुनः कथञ्चित्सर्वास्वपि लेश्यासु भवति, तत्रापीतरासु अविशुद्धासु लेश्यासु नात्यन्तं सङ्क्लिष्टासु वर्त्तते, तथाभूतासु च तासु वर्त्तमानो न प्रभूतं कालमवतिष्ठते, किन्तु स्तोकं, यतः स्ववीर्यवशात् झटित्येव ताभ्यो व्यावर्त्तते, अध प्रथमत एव कस्मात्प्रवर्त्तते ?, उच्यते - कर्मवशात्, उकं च "लेसासु विसुद्धासु य पडिवज्जइ तीसु न उण सेसासु । पुयपडिवन्नतो पुण होजा धावि कहंचि ॥ १ ॥ नऽवंतसंकिलिद्वासु थोवकालं च हंदि इयरासु । चिता
For Pruate & Personal Use Offy
~ 263~
janelibrary.org