________________
आगम
(४०)
[भाग-3] “आवश्यक - मूलसूत्र-१ (नियुक्ति:+वृत्ति:) १
अध्ययनं -1, नियुक्ति: H], भाष्यं -1, विभा गाथा -1, मूलं [-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्तिः ।
प्रत
सूत्रांक H
%
दीप अनुक्रम
बाप्रपञ्चतो धर्मसङ्ग्रहणिटीकादाविति ततः परिभावनीयं, अथ यदि वचनस्य वाह्यार्थ प्रति प्रामाण्यं तर्हि अत एव सम्य- प्रयोजन
गभिधेयादिपरिज्ञानभावान्निरधिका शास्त्रे प्रेक्षावतां प्रवृत्तिः, फलाभावात्, प्रवृत्ती हि फलमभिधेयादिपरिज्ञानं, तच्चाधि-11 ॥२॥ कृतप्रयोजनाद्युपन्यासत एवं सिद्धमिति, तदेतद्वालिशविजृम्भितं, अधिकृतेन हि प्रयोजनाडुपन्यासेन प्रयोजनादी- सफलता
नामधिगतिर्भवति सामान्येन, नाशेषविशेषपरिज्ञानपुरस्सरा, अधिकृतप्रयोजनाद्युपन्यासस्य सामान्येन प्रवृत्तत्वात् , 'सामान्यनिष्ठं हि वचः सामान्य प्रतिपादयति, विशेषनिष्ठं विशेषम् अतो वचनप्रामाण्यादधिकृतप्रयोजनाद्युपन्यासवाक्यतः सामान्येन प्रयोजनादिकेऽधिगते कथं नु नाम अस्माकं सविशेपं सामायिकादिपरिज्ञानं स्वादिति विशेषपरिज्ञानाय भवति प्रेक्षावतां शास्त्रे प्रवृत्तिः, अन्यच्च-यदि वचनस्याप्रामाण्यमभ्युपगम्यते तथापि न काचिद्विवक्षितार्थक्षतिः, संशयतोऽपि | प्रवृत्तिभावात् , तथाहि-अनेनाधिकृतप्रयोजनाद्युपन्यासेन तद्विषयसंशय उपजन्यते, संशयश्च द्विधा-अर्वसंशयोऽनधसंशयश्च, तत्रार्थसंशयो यथा-यदि वृष्टयादिसामग्री ततः सम्भवति शस्यनिष्पत्तिः, अनर्थसंशयो यथा-(यदि) विषमिदं वो भक्षयति स वियते, तत्रानर्थसंशयात् न कस्यचित्सचेतसः प्रवृत्तिः, अनर्थतः संशयस्यापि बिभ्यत्वात्, अर्थसंशयस्तु प्रेक्षावतोऽपि प्रवृत्त्यङ्गं, अनर्थकशङ्काया अभावात् फलस्य च केषाञ्चिद्दर्शनात्, न चायमधिकृतप्रयोजनाडुपन्यासजनितः संशयोऽनर्थसंशय इति भवति प्रेक्षावतां प्रवृत्तिरिति न किञ्चिदनुपपन्नम् ॥ सम्प्रति मङ्गलमुच्यते, यतः-श्रेयांसि | बहुविघ्नानि भवन्ति, उक्कं च-"श्रेयांसि बहुविनानि, भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां,क्वापि यान्ति विनायका॥१॥" अयमपि च आवश्यकानुयोगो निथुक्तिरूपः परमपदप्राप्तिवीजभूतत्वात् श्रेयोभूतः ततोमा भूत्तत्र विन इति तदारम्भे विघ्न
2
R- 5
Furune Fersonals
~26~