________________
आगम (४०)
[भाग-3] “आवश्यक - मूलसूत्र-१ (नियुक्ति:+वृत्ति:) १
अध्ययनं -1, नियुक्ति: H], भाष्यं -1, विभा गाथा -1, मूलं [-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्तिः ।
प्रत
सूत्रांक
-
दीप अनुक्रम
युगीनसाधूनामुपकाराय आवश्यकस्य व्याख्यानरूपामिमा नियुक्ति कृतवन्तः, अन्यथा सम्यक्परिज्ञानाभावतः शिष्याणां मोक्षपथप्रवृत्स्युच्छेदमसक्तः, कारणादेव कार्यसिद्धिभावाद, आह च भाष्यकृत-"नाणकिरियाहि मोक्खोई तम्मयमावस्सयं जओ तेणं । तवक्खाणारंभो कारणओ कजसिद्धिति ॥शा" [ज्ञानक्रियाभ्यां मोक्षो यतस्तन्मयभावश्यकं । ततः तब्याख्यारम्भः, कारणतः कार्यसिद्धिरिति ॥२॥] (भा.) ततः श्रोतणामपि परम्परया मुक्तिभावाद् भवति तेषां परं प्रयोजन | निःश्रेयसावाप्तिरिति प्रयोजनवान् आवश्यकपारम्भप्रयासः, अभिधेयं सामायिकादि, तेषामेवास्मिन् प्रन्धे सविस्तरमभिधास्यमानत्वात् , सम्बन्धस्तु द्विधा-उपायोपेयभावलक्षणो गुरुपर्वक्रमलक्षणश्च, तत्रायः तकानुसारिणः प्रति, तद्यथा-वचन
रूपापनमावश्यकमुपायः उपेयं सामायिकादिपरिज्ञानं, मुक्तिपदंवा,तस्याप्यतः पारम्पर्येण भावात् , तथाहि-अस्मात् सम्यक्साट्रामायिकाद्यर्थपरिज्ञानं भवति, सति च तस्मिन् सम्यग्दर्शनादिवैमल्यं क्रियाप्रयत्नश्च, ताभ्यां प्रकर्षमाधाभ्यां मुक्तिपदप्राप्तिरिति,
गुरुपर्वक्रमलक्षणस्तु सम्बन्धः उपोद्घातनियुक्ती 'उद्देसे निर्देसे य निग्गमे' इत्यादिना अन्धेन स्वयमेव नियुक्तिकृता प्रा. चन वक्ष्यते । अत्र कश्चिदाह-ननु अधिगतशास्त्रार्थानां स्वयमेव प्रयोजनादिपरिज्ञानं भविष्यतीति निरर्थक एप शास्त्रादौ प्रयोजनाापन्यास इति, न, अनधिगतशास्त्रार्थानां प्रवृत्तिहेतुतया सफलत्वात् , अब प्रेक्षावतां प्रवृत्तिनिश्चयपूर्विका
भवति, न च प्रयोजनादावुक्तेऽपि अनधिगतशास्त्रार्थानां तन्निश्चयोपपत्तिः, वचनस्य बाह्या प्रति प्रामाण्याभावात् । दान च संशयतः प्रवृत्तिरुपपन्ना, प्रेक्षावत्ताक्षतिप्रसङ्गात्, ततः कथं सार्थकता अधिकृतप्रयोजनाद्युपन्यासस्य !, तदेतद
परिभाषितभाषितं, वचनस्य बाह्यार्थ प्रति प्रामाण्यभावात् , अन्यथा सकलव्यवहारोच्छेदमसक्के, विजृम्भितं चात्र
ॐ
E
*
For
a From Us
~25~