________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) १
अध्ययनं [-], निर्युक्तिः [ ११४,११५], भाष्यं [-] वि० भा० गाथा [-], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
उपोद्घातनिर्युक्तिः
॥११८॥
द्वादशविधे - द्वादशप्रकारेऽनन्तानुबन्ध्यादिभेदभिन्ने कषाये - क्रोधादिरूपे 'क्षपिते' विध्याताग्नितुल्यतां नीते 'उपशमिते' भस्मच्छन्नाग्निकल्पतां प्रापिते वाशब्दात् क्षायोपशमिके च- अर्द्धविध्यातज्वलनसमतामुपनीते योगेः- मनोवाक्कायलक्षणैः प्रशस्तैर्हेतुभूतैः, किं ?-लभ्यते चारित्रलाभः, तत्र क्षयत उपशमतः क्षयोपशमतश्चाद्यानि त्रीणि लभ्यन्ते, सूक्ष्मस| म्पराययथाख्यातचारित्रे पुनः क्षयत उपशमतो वा, न तु क्षयोपशमतः, उक्तं च- "खयतो वा समतो वा, खतोवसमतो व तिण्णि उम्भन्ति । सुहुमाहक्खायाई खयतो समतो व नन्नत्तो ॥ १ ॥” (वि. १२५७) 'तस्य' चारित्रस्य सामान्य रूपस्य, न तु द्वादशविधकपायक्षयादिजन्यस्यैव, विशेषा-भेदा इमे वक्ष्यमाणाः पञ्च ॥ तानेवाह
सामात्थ पढमं छेओवद्वावणं भवे बीयं । परिहारविमुद्धीअं, मुहमं तह संपराय च ॥ ११४ ॥ तत्तोय अक्खायं खायं सर्वभि जीवलोयम्मि । जं चरिऊण सुविहिया, वर्चतऽयरामरं ठाणं ॥ ११५ ॥ समो रागद्वेपरहितत्वाद् अयो- गमनं समायः, एष धान्यासामपि साधुक्रियाणामुपलक्षणं, सर्वासामपि साधुक्रियाणां रागद्वेषरहितत्वात्, समायेन निर्वृत्तं समाये भवं वा सामायिकं, यद्वा समानां - ज्ञानदर्शनचारित्राणामायो - लाभः समायः समाय एव सामायिक, विनयादेराकृतिगणतया 'विनयादिभ्य' इति स्वार्थे इकणू, तच्च सर्वसावद्यविरतिरूपं, यद्यपि च सर्वमपि चारित्रमविशेषतः सामायिकं तथापि छेदादिविशेषैर्विशेष्यमाणमर्थतः शब्दान्तरतश्च नानात्वं भजते, प्रथमं | पुनरविशेषणात् सामान्यशब्द एवावतिष्ठति, तच्च द्विधा- इत्यरं यावत्कथिकं च तत्रेत्वरं भरतैरावतेषु प्रथमपश्चिमतीकरतीर्थेषु अनारोपितमहात्रता शैक्षकस्य विज्ञेयं यावत्कथिकं प्रत्रज्याप्रतिपत्तिकालादारभ्यामाणोपरमात्, तच्च महा
... चारित्रस्य भेदानां वर्णनं
For Pruate & Personal Use Only
~ 258~
अतिचारहेतुः चारित्रभेदाः
११२-१५
॥२१८॥