SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] [भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) १ अध्ययनं [-], निर्युक्तिः [११२, ११३], भाष्यं [-] वि० भा० गाथा [-] मूलं [- /गाथा -] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः मध्यप्रत्याख्यानकषायप्रत्याख्यानावरणानां द्वादशानां कषायाणामुदये, तथा सम्-ईषत्परीपहादिसम्पाते चारित्रिणमपि | ज्वलयन्तीति सचलनाः क्रोधादयस्तेषामुदये न लभते चरणं चारित्रं, किं सर्वमेव १, नेत्याह- 'यथाख्यातं' यथैव तीर्थ| करगणधरैराख्यातमकषायं भवति चारित्रमिति तथैव यत् तद् यथाख्यातम्, अकषायमित्यर्थः, सकषायं तु उभते एव ॥ न च यथाख्यात चारित्रमात्रोपघातिन एव सञ्चलनाः, किन्तु शेषचारित्र देशोपघातिनोऽपि तदुदये शेषचारित्रस्थापि देशतोऽतिचारसम्भवात् तथा चाह सद्देवि य अइयारा संजलणाणं तु उदयओ होंति । मूलच्छेजं पुण होइ बारसहं कसायाणं ॥ ११२ ॥ सर्वेऽपि आलोचनादिच्छेदपर्यन्तप्रायश्चित्तशोध्या अपिशब्दात् कियन्तोऽपि अतिचरणान्यविचाराः - वारित्रस्खलनविशेषाः सम्ज्वलनानामेवोदयतो भवन्ति, तुशब्द एवकारार्थः, द्वादशानां पुनः कषायाणामुदयतो मूलच्छेद्यं भवति, मूलेन-अष्टमस्थानवर्त्तिना प्रायश्चित्तेन छिद्यते- अपनीयते यत् दोषजातं तत् मूलच्छेद्यम्, अशेषचारित्रोच्छेदकारीति भावः, पुनः शब्दः प्रक्रान्तार्थविशेषक एव भवति द्वादशानामनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणलक्षणानां कषा| याणामुदये, अथवा मूलच्छेद्यं दोषजातं यथासम्भवतो योज्यते, तद्यथा- प्रत्याख्यानावरण कपायचतुष्टयोदये सर्वविरति रूपस्य चारित्रस्य मूलच्छेद्यं सर्वनाशरूपं दोषजातं भवति, अप्रत्याख्यानकषाय चतुष्टयोदये देशविरतिचारित्रस्य, अनन्तानुबन्धिकपायचतुष्टयोदये तु सम्यक्त्वस्येति ॥ यतश्चैवमतः बारसविहे कसाए, खइए उबसामिए व जोगेहिं । लब्भइ परिचलंभो, तस्स विसेसा इमे पंच ॥ ११३ ॥ For Prate & Personal Use Offy ~ 257 ~
SR No.035063
Book TitleSavruttik Aagam Sootraani 2 03 Aavashyak Niryukti evam Vrutti Aagam 40 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy