________________
आगम
(४०)
[भाग-3] “आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) १
अध्ययनं H, नियुक्ति: [८९-९०], भाष्यं , वि०भा०गाथा , मूलं [-/गाथा-] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्तिः ।
प्रत
सूत्रांक
दीप अनुक्रम
H
ACCOACकटकन
किमर्थमित्याह-भव्याच ते जनाश्च भव्यजनास्तेषां विबोधनम् तदर्थ-तनिमित्तम् , अत्र पर आह-ननु कृतकृत्यो भगवान् ततस्तस्य परेभ्यस्तत्त्वकथनमनर्थकम् , प्रयोजनाभावात्, अथास्ति प्रयोजनं तहिं नासौ कृतकृत्या, प्रयोजनसापेक्षत्वादम-16 दादिवत्, अन्यच्च-सर्वज्ञो वीतरागश्च भगवान् स भव्यानेव विबोधयतीत्ययुक्तं, तथाहि-सर्वज्ञत्वादसावभग्यानामपि वि-12 वोधनोपायमवगच्छति, अन्यथा सर्वज्ञत्वव्याघातप्रसङ्गात्, न च तस्य भन्येषु पक्षपातो येन भव्यानेव विबोधयति नाभध्यान वीतरागत्वादिति, अत्रोच्यते, कृतकृत्यो भगवान् न भवति, तीर्थकरनामकर्मविपाकोदयस्याद्याप्यनुभूयमानत्वात् , तदनुभवश्च सद्धर्मदेशनादिप्रकारेणेति न तत्त्वकथनमनर्थकं, यदप्युक्तम् ' सर्वज्ञो वीतरागश्च भगवानि'त्यादि, तत्रापि यत एव भगवान् सर्वज्ञोऽत एव भव्यानेव विबोधयति,अभव्यानां बोधनोपायस्य कस्याप्यभावात्, अन्यथा अभव्यत्वायोगात् , ततो न कश्चिद्दोषः, न च पक्षपातो भव्येषु, वीतरागत्वात्,केवलं तस्य भगवतत्रैलोक्याधिपतेः पक्षपातनिरपेक्षमविशेषेण सद्धर्मदेशनां कुर्वतो विभिन्नस्वभावेषु प्राणिषु तथा तथा स्वाभाव्याद् विबोधाविबोधकारिणी पुरुषोलुककमलकुमुदादिप्यादित्यस्य प्रकाशनक्रियेव सद्धर्मदेशनक्रियोपजायते, ततो न कशिदोषः, उकं च वादिमुख्येन-"वद्वाक्यतोऽपि केषाश्चिदबोध इति मेऽद्भुतम् । भानोमरीचयः कस्य, नाम नालोकहेतवः॥१॥ नैवाद्भुतमुलूकस्य, प्रकृत्या | क्लिष्टचेतसः । स्वच्छा अपि तमस्त्येन, भासन्ते भास्वतः करा ॥२॥" किश्च-यथा सुवैद्यः साध्यमसाध्यं वा व्याधि चिकित्समानः प्रत्याचक्षाणश्च नातज्ज्ञो न च रागद्वेषवान, एवं साध्यासाध्यभन्याभव्यकर्मरोममपनयन्ननपनयंश्च नावरज्ञो न च रागद्वेषवान् , यों वा योग्ये दलिके रूपं कुर्वन् अयोग्ये चाकुर्वन रूपकारो नातग्झो नवा रागद्वेषवान |
~231