________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) १
अध्ययनं [-], निर्युक्तिः [ ८० ], भाष्यं [-] वि० भा० गाथा [ १०३०], मूलं [- / गाथा-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
उपोद्घात निर्युक्तिः
॥ ९७ ॥
तीर्यतेऽनेनेति तीर्थ, 'ददिरमिहनिनी कुपपागोरविका शिवचिरिचिसिचिभ्यः कि' दिति कित्प्रत्ययः तच्च नामादिभेदाच्चतुर्धा, | तद्यथानामतीर्थ स्थापनातीर्थे द्रव्यतीर्थे भावतीर्थं च नामस्थापने सुगमे, द्रव्यतोऽपि यावत् नोआगमतो ज्ञशरीरभव्यशरीरे, तद्व्यतिरिक्तं नद्यादीनामनपायः समो विभागः, तीर्थसिद्धौ च त्रितयं सिद्धं तद्यथा-तरीता तरणं तरणीयं च, तत्र पुरुषस्तरीता बाइडुपादि तरणं नद्यादि तरणीयं द्रव्यता स्वस्य तीर्णस्यापि पुनस्तरणीयभावात्, कदाचिदपाय-सम्भवेनानेकान्तिकत्वाच्च, अथ तीर्थ नद्यादिस्नानतीर्थ पुराणेषु प्रसिद्धं गीयते, न शेषं तच्च भवतारणात्तीर्थमिति, तदसम्यक्, तस्यापि बाह्यमलमात्रापनयनकारितया द्रव्यतीर्थत्वानतिक्रमात्, न खलु तदान्तरं मलमपनेतुं समर्थम्, आन्तरो हि मलः सर्वथा समुच्छिन्नो भवति भाबिमलोत्पत्तिनिरोधतः प्राचीनमलविध्वंसतश्च तत्र भाविमलोत्पत्तिनिरोधस्ताव तीर्थस्नानान्न भवति, मलो हि प्राणातिपातादिकारणपूर्वकस्ततस्तन्निवृत्यैव तदुत्पत्तिनिरोध उपजायते, न तीर्थस्नानमात्रात्, अत एवोक्तमत्र धर्मकीर्त्तिना - " वेदप्रामाण्यं कस्यचित्कर्तृवादः, स्नाने धर्मेच्छाजातिवादावलेपः । सन्तापारम्भः पापहानाय चेति, ध्वस्तप्रज्ञाने पञ्च लिङ्गानि जाये ॥ १ ॥ अन्यच्च तीर्थस्नानं विशेषतो भाविमलोत्पत्तिकारणं, न पुनस्तदुत्पत्तिनिरोधहेतुः, जीवोपघात हेतुत्वादुदूखलाद्यधिकरणवत्, तथाहि तीर्थस्नानं कुर्वता विराध्यन्ते बहवोऽष्का|यिका जीवा इति, प्रतीतमेतत् तत्त्ववेदिनां तत उदूखलाद्यधिकरणमिव शूनाङ्गमिदमिति न भवतारणायोपजायते, इतश्च न भवतारणकारणं - कामाङ्गतया यतिजनायोग्यत्वात्, मण्डनवत्, आह च "सूणंगंपि व तमुदूखलं व न य मोक्खकारणं पहाणं । न य जइजोग्गं तं मंडणंव कामंगभावातो ॥१॥” (वि. १०३०) नापि प्राचीनमढोच्छेदहेतुः, प्राचीनमलस्य विशिष्ट
For Pevate & Personal Use Offy
216~
तीर्थकरवन्दनम् गा.
ક
॥ ९७ ॥