________________
आगम
(४०)
प्रत
सूत्रांक [-]
दीप
अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) १
अध्ययनं [-], निर्युक्ति: [ ७९], भाष्यं [-] वि० भा० गाथा [ ९६०, ९६१, ९७०], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
उपोद्घात निर्युक्तिः
॥ ९६ ॥
अलोगोब । आयो नाणाईणं झवणा पावाण खवणंति ॥ २ ॥ (वि. ९६० - १) नामनिष्पन्ने निक्षेपे सामायिकमिति विशेषनाम, तच नामादिभेदाच्चतुर्विधमिदं च निरुक्तिद्वारे सूत्रस्पर्शिकनिर्युकौ च प्रपञ्चेन वक्ष्यामः, आह-यदि तदिह नाम अवसरप्राप्तं तर्हि किमिति निरुक्त्यादावस्य स्वरूपप्रतिपादनं । तत्र चेत् स्वरूपाभिधानमस्य तर्हि कस्मादत्रोपन्यासः ?, उच्यते, इह निक्षेपद्वारे निक्षेपमात्रस्यैवावसरः, निरुक्तौ तु तदन्वाख्यानस्येत्यदोषः, नन्वेवमपि निरुक्तिद्वार एव यदि सामायिकव्याख्यानं ततः किं सूत्रे पुनरभिधीयते १ तदसम्यकू, वस्तुतत्त्वापरिज्ञानात्, सूत्रे हि सूत्रालापकव्याख्यानं, न तु नाम्नः, निरुक्तौ तु निक्षेपद्वारन्यस्तं सामायिकमित्यध्ययनाभिधानं निरूप्यते इत्यलं प्रसङ्गेन, उक्तो नामनिष्पन्नो निक्षेपः । सम्प्रति सूत्रालापकनिष्पन निक्षेपस्यावसरः, स च प्राप्तावसरोऽपि न निक्षिप्यते, कस्मादिति चेत्, उच्यते, सूत्राभावाद, असति हि सूत्रे कस्यालापकस्य निक्षेपः १, ततोऽस्तीतः तृतीयमनुयोगद्वारमनुगमाख्यं तत्रैव निक्षेप्स्यामः, आह-यदि प्राप्तावसरोऽप्यसाविह न निक्षिप्यते ततः किमित्युपन्यस्यते १, उच्यते, निक्षेपसामान्यात्, आह च "इह जइ पत्तोऽवि तओ न नस्सए कीस भण्णए इहई १ । दाइज्जइ सो निक्खेवमित्तसामण्णतो नवरं ॥१॥” (वि. ९७०) इदानीमनुगमावसरः, स च द्विषा-निर्युक्त्यनुगमः सूत्रानुगमश्च, निर्युक्त्यनुगमस्त्रिविधः, तद्यथा - निक्षेपनिर्युक्त्यनुगमः, उपोद्घात| निर्युक्त्यनुगमः सूत्रस्पर्शकनिर्युक्त्यनुगमश्च, तत्र निक्षेपनिर्युक्त्यनुगमो नाम यदधो नामादिन्यासान्व्याख्यानमुक्तं ततः सोऽनुगत एव, इदानीमुपोद्घातनिर्युक्त्यनुगमप्रस्तावः, स च उद्देशादिद्वारलक्षणः, ततोऽस्य महार्थत्वात् मा भूद्विन इति प्रारम्भेऽस्य मङ्गलमुच्यते, आह-ननु मङ्गलं प्रागेवोकं ततः किं पुनस्तेन ?, अथ कृतमङ्गलैरपि पुनर्मङ्गलमभिधीयते
For Pruate & Personal Use Offy
~ 214~
ओघनिष्पनादिभेदाः
॥ ९६ ॥