________________
आगम
(४०)
प्रत सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) १
अध्ययनं [-], निर्युक्ति: [ ७९], भाष्यं [-] वि० भा०गाथा [९५३,९५८], मूलं [- /गाथा - ]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
व्यतायां समवतारणीयानि, परसमयप्रतिपादकानां उभयसमयप्रतिपादकानामपि सम्यग्दृष्टेः स्वसमयत्वात्, देयोपादेयार्थानां सम्यक् हेयोपादेयतया परिज्ञानात्, आह च-परसमओ उभयं वा सम्मद्दिस्सि ससमओ जेणं । तो सबउझयणाई ससमयवत्तवनिययाई ॥ १ ॥ (वि. ९५३ ) " इदानीमर्थाधिकारः, स चाध्ययनसमुदायार्थः, स च स्वसमयवकन्यतैकदेशः, स च सावद्ययोगविरतिरूपः । इदानीं समवतारः, स च लाघवार्थ प्रतिद्वारं समवतारणाद्वारेण प्रदर्शित एव, उक्त उपक्रमः । इदानीं निक्षेपः, स च त्रिविधस्तद्यथा - ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च तत्रौघो नाम सामान्यं | शास्त्राभिधानं तचेह चतुर्विधम्-अध्ययन १ मक्षीण २ मायः ३ क्षपणा ४ च, एकं च- “ओहो जं सामनं, सुयाभिहाणं चडविहं तं च । अज्झयणं अम्झीणं आओ झवणा ये पत्तेयं॥ १ ॥” (वि. ९५८) पुनरेकैकं नामादिभेदाच्चतुर्विधं तद्यथा-नामाध्ययनं स्थापनाध्ययनं द्रव्याध्ययनं भावाध्ययनं च, तथा नामाक्षीणं स्थापनाक्षीणं द्रव्याक्षीणं भावाक्षीणं, तथा नामायः स्थापनायो द्रव्यायो भावायः, नामक्षपणा स्थापनाक्षपणा द्रव्यक्षपणा भावक्षपणा च एतानि च यथाऽनुयोगद्वारेषु तथा प्ररूप्येदं सामायिकमध्ययनं भावाध्ययने भावाक्षीणे भावाये भावक्षपणायां चायोज्यं, तत्र यस्मादनेन शुभमध्यात्मं जन्यतेऽथवाऽध्यात्ममानीयते, अधिकं वा अयनं बोधस्य संयमस्य मोक्षस्य वा इदमित्यध्ययनमाद्यव्युत्पत्तिपक्षद्वये पृषोदरादित्वादिष्टरूपनिष्पत्तिः, तथा शिष्येभ्योऽनवरतं दीयमानमप्यन्युच्छित्तिन यापेक्षया न क्षयमुपयात्यलोकवदित्यक्षीणं, शानदर्शनचारित्राणां प्राप्तिहेतुत्वादायः, पापकर्मक्षपणहेतुत्वात् क्षपणा, उक्तं च- "जेण सुहज्झष्पजणणं| अप्पाणयणमहियमयणं वा । बोहस्स संजमस्थ व मोक्खस्स च मं तमायणं ॥ १॥ अज्झीणं दिजंतं अबोच्छित्चिनयतो
For Pruate & Personal Use Orty
~213~