________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) १
अध्ययनं [-], निर्युक्ति: [ ७९], भाष्यं [-] वि० भा० गाथा [ ९४७, ९४८, ९५० ], मूलं [- / गाथा-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
उपोद्घातनिर्युक्तिः
॥ ९५ ॥
सरोऽप्यागमः सूत्रार्थोभयरूपत्वात् त्रिविध एव तत्रेदं कान्तर्भवति १, उच्यते, सामायिकस्य सूत्रार्थोभवरूपत्वा| त्रिविधेऽपि लोकोत्तरागमे, उक्तं च- "जीवानन्नत्तणतो जीवगुण बोहभावतो नाणे । लोगुत्तरमुत्तत्थोभयागमे तस्स | भावा ओ ॥१॥ (वि. ९४७) ननु लोकोत्तर आगमस्त्रिधा, तद्यथा- आत्मागमः अनन्तरागमः परम्परागमश्च, ततः केदं समवतरति १, उच्यते, इदं सूत्रतो गौतमादीनामात्मागमः तच्छिष्याणां जम्बूस्वामिप्रभृतीनामनन्तरागमः, प्रशिष्याणां तु प्रभवप्रमुखाणां परम्परागमः, तथा अर्थतोऽईतामात्मागमः गणधराणामनन्तरागमः सच्छिष्याणां परम्परागमः एवं सूत्र| तोऽर्थतश्च त्रिविधे प्रमाणेऽन्तर्भवति, उक्तं च- "सुत्ताउ गणहराणं तस्सिसाणं तहा पसिस्साणं । एवं अत्ताणतरपरम्परा| गमपमाणमि ||१||” “अत्थेण उ तित्थंकर गणहरसिस्साणमेवमेवेदं ॥ (वि. ९४८॥ ) " नयप्रमाणे तु मूढनयं कालिक श्रुतमिति नयस्य नाधुनाऽवतारः, पूर्व त्वनुयोगानामपृथग्भावे स आसीत्, यदिवा पुरुषं कञ्चनापि समासाद्य नयप्रमाणतस्ववित् | यथाशक्ति नयेऽपि समवतारं कुर्यात्, आह च - "आसि पुरा सो नियतो अणुओगाणमपुहुत्तभावंमि । संपइ नत्थि पुहुत्ते | होज्जवि पुरिसं समासज्ज ॥१॥” (वि. ९५०) सम्प्रति सङ्ख्याप्रमाणं चिन्त्यते, तत्र सङ्ख्या नामस्थापना व्यक्षेत्र कालोपम्यपरिमाभावभेदादष्टप्रकारा यथानुयोगद्वारेषु तथा वक्तव्या, तत्रोत्कालिक श्रुतपरिमाणसङ्ख्यायां समवतारः, तत्र सूत्रतः सामायिकं परिमितप्रमाणं अर्थतोऽनन्तपर्यायत्वादपरिमितप्रमाणं । सम्प्रति वक्तव्यता, सा त्रिविधा, तद्यथा-स्वसमयवक्तव्यता परसमयवक्तव्यता उभयसमयवक्तव्यंता चेति, तत्र समय:- सिद्धान्तः वक्तव्यता - पदार्थविचारः, तत्र स्वसमयवक्तव्य - | तायामस्य सामायिकाध्ययनस्य समवतारः, स्वसमयस्यैव अत्र प्रतिपाद्यमानत्वाद्, एवं सर्वाण्यप्यध्ययनानि स्वसमयवक्त
or Peuate & Personal Use Orty
~212~
नामप्रमाणे
॥ ९५ ॥