________________
आगम
(४०)
प्रत सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) १
अध्ययनं [-], निर्युक्ति: [ ७९], भाष्यं [-] वि० भा०गाथा [-], मूलं [- /गाथा - ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
आ.सु. १६
| परिकर्म्मणि द्विपदोपक्रमो यथा पुरुषस्य वर्णादिकरणमथवा कर्णस्कन्धवर्द्धनादि, अन्ये तु शास्त्रगन्धर्वनृत्यादिकलास|म्पादनमपि द्रव्योपक्रमं व्याचक्षते, तदसाधु, शास्त्रादिपरिज्ञानस्य विज्ञानविशेषात्मकत्वात् तदुपक्रमस्य भावोपक्रमत्वात्, यदिवा आत्मद्रव्यसंस्कारविवक्षया द्रव्योपक्रमत्वेऽप्यविरोधः, एवं शुकशारिकादीनामपि शिक्षागुणविशेषकरणं भावनीयं, तथा चतुष्पदानां हस्त्यादीनां शिक्षागुणविशेषकरणं चतुष्पदोपक्रमः, अपदानां वृक्षादीनां वृक्षायुर्वेदोपदेशाद्वार्द्धक्यादिगुणापादनमपदोपक्रमः । ननु यत्स्वयं कालान्तरभान्युपक्रम्यते यथा तरोर्वार्द्धक्यादि तत्र परिकर्म्मणि द्रव्योपक्रमता युक्ता, वर्णकरणं कलादिसम्पादनं च कालान्तरेऽपि विवक्षितहेतुजालमन्तरेण नोपपद्यते ततः कथं तस्य परिकर्म्मणि द्रव्योपक्रमता १, नैष दोषः, विवक्षितहेतुजालमन्तरेण नोपपद्यते इत्यस्यासिद्धत्वात्, वर्णो हि नामकर्मविपाकोदयसम्भवी कलादयोऽपि च ज्ञानावरणकर्म्मक्षयोपशमभाविनः, ततो विवक्षित हेतु जालमन्तरेणापि कालान्तरे स्वयमप्येते सम्भवन्ति, विश्वमविलासादीनां युवावस्थायां तथा दर्शनात्, ततः स्वयं कालान्तरभाविनामेतेषां अर्वाक् विवक्षितहेतुजालेन | सम्पादनं उपपद्यते परिकर्म्मण्युपक्रमणमिति, वस्तुविनाशे तु पुरुषादीनामुपक्रमणं खङ्गादिभिर्विनाशः । आह-परिकम्मं वस्तुविनाशयोरभेद एव, उभयत्रापि पूर्वरूपपरित्यागेनोत्तरावस्थापत्तेरविशिष्टत्वात्, तदसम्यक्, परिकर्मोपक्रमजनितोत्तररूपापत्तौ हि प्राणिनामविशेषेण प्रत्यभिज्ञानाद्युपजायते, वस्तुनाशोपक्रमसम्पादिते तूत्तरधर्मे वस्तुम्यदर्शनमिति महान् विशेषः, अथवा एकत्र नाश एव विवक्षितो नोचरावस्थेत्यदोषः, अचिराद्रव्योपक्रमः परिकर्म्मणि यथा पद्मरागमणेः | क्षारमृत्पुटपाकादिना वैमल्यापादनं, व तुविनाशे विनाशः, मिश्रद्रव्योपक्रमः परिकर्म्मणि कटकादिविभूषितपुरुषादिद्र
For Pruate & Personal Use Only
~203~