________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) १
अध्ययनं [-], निर्युक्ति: [ ७९], भाष्यं [-] वि०भा० गाथा [ ९२६], मूलं [- /गाथा -]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
उपोद्धारा निर्युक्तिः
॥ ९१ ॥
व्यस्य शिक्षापादनं, वस्तुविनाशे खड्गादिभिर्विनाशः । कारकयोजना स्वधिया भावनीया, तद्यथा— द्रव्यस्य द्रव्याणां द्रव्येण द्रव्यैर्वा द्रव्ये द्रव्येषु वा उपक्रमो द्रव्योपक्रमः, तत्र द्रव्यस्योपक्रमो यथा एकस्य पुरुषस्य शिक्षाकरणं, द्रव्याणामुपक्रमो यथा तेषामेव बहूनां द्रव्येणोपक्रमो यथा फलकेन समुद्रतरणं, द्रव्यैरुपक्रमो बहुभिः यथा फलकैर्नावं निष्पाद्य समुद्रोलङ्घनं द्रव्ये उपक्रमो यथा कस्याप्येकस्मिन् फलके उपविष्टस्य शिक्षाकरणं, द्रव्येषूपक्रमो वह्नषूपविष्टस्य, तथा क्षेत्रस्योपक्रमः क्षेत्रोपक्रमः, सोऽपि द्विधा - परिकर्मणि वस्तुविनाशे च ननु क्षेत्रमाकाशं 'खेतं खलु आगास' मिति वचनात्, तश्चामूर्त्त नित्यं च ततः कथं तस्य परिकर्म्मविनाशोपपत्तिः १, उच्यते, इह तद्व्यवस्थितद्रव्यपरिकर्मविनाशौ भवतः उपचारेण खलु क्षेत्रस्यापि परिकर्म्मविनाशौ व्यपदिश्येते भवति च तात्स्थ्यात्तद्व्यपदेशो, यथा-मवाः क्रोशन्ति, ततो | न कश्चिद्दोषः, तत्र परिकर्म्मणि क्षेत्रोपक्रमो नावा समुद्रस्योलङ्घनं हलकुलिकादिभिर्वा इक्ष्वादिक्षेत्रस्य परिकर्म्मणा, वस्तुविनाशे क्षेत्रोपक्रमो गजबन्धनादिभिः क्षेत्रस्य विरूपीकरणं, तथा कालो नाम वर्त्तनादिरूपत्वात् द्रव्यपर्यायः, ततो द्रव्यस्य * परिकर्म्मणि वस्तुविनाशे वा कालस्यापि तावुपचर्येते इति कालोपक्रमः, उक्तं च- "जं वत्तणाइरूवो कालो दवाण चेव है। पज्जाओ । ता तकरणविणासे कीरइ कालोवयारोत्थ (उ) ॥१॥ (वि. ९२६) अथ ये वर्त्तनादिरूपमेव कालमिच्छन्ति तन्मतेन
कालोपक्रम एवंरूपो भवतात्, यस्तु लोकप्रसिद्धो घटिकामुहूर्त्तप्रहरादिरूपस्तस्य कथं परिकर्म्मरूपो विनाशरूपश्च उपक्रमः १, २ ॥ ९१ ॥ उच्यते, इह यत् शङ्कादिच्छायया नाडिकया वा यथार्थ प्रहरादिपरिज्ञानं स परिकर्म्मणि कालोपक्रमः, यत्तु ग्रहनक्षत्रादिचारविशेषैर्विरूपीभवनं स वस्तुविनाशे कालोपक्रमः, आह च - "छायाऍ नालियाए व परिकम्मं से जहत्थविण्णाणं। रिक्खा
For Prvate & Personal Use Offy
204~
उपक्रमाः
janelibrary.org