________________
आगम
(४०)
[भाग-3] “आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) १
अध्ययनं H, नियुक्ति: [७९], भाष्यं , वि०भा०गाथा -1, मूलं [- /गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [९] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्तिः ।।
प्रत सूत्रांक
दीप अनुक्रम
इति कायोत्सर्गाध्ययने व्रणचिकित्सा अर्थाधिकारः, इदमुक्कं भवति-बारित्रपुरुषस्य योऽयमतिचाररूपो भावत्रणस्तस्य दशविधप्रायश्चित्तभेषजेन कायोत्सर्गाध्ययने चिकित्सा प्रतिपादयिष्यते इति, 'गुणधारणा चेवेति प्रत्याख्यानाध्ययने गुणधारणा अर्धाधिकारः, इदमत्र हृदयम्-मूलगुणोत्तरगुणप्रतिपत्तिस्तस्याश्च निरतिधारसन्धारणं यथा भवति तथा प्रत्याख्यानाध्ययने प्ररूपणा करिष्यते, चशब्दादन्ये चापान्तरालार्थाधिकारा विज्ञेयाः, एवकारोऽवधारणे इति गाथार्थः॥ एतेषां चााधिकाराणां प्रत्यध्ययनमाधिकारद्वार एवावसरः, केवलमिह प्रसङ्गत उक्ताः । तदेवमावश्यकश्रुतस्कन्धानां न्यास उक्तः, इदानीमध्ययनन्यासप्रस्तावः, तं चानुयोगद्वारक्रमायात प्रत्यध्ययनमोघनिष्पन्ने नामनिष्पन्ने च लाघवार्थ : वक्ष्यामः, एप आवश्यकस्य समुदायार्थः, साम्प्रतमवयवार्थप्रदर्शनाय एकैकाध्ययनं वक्ष्यामः, तत्र प्रथममध्ययनं सामायिकं, प्रधमता चास्य समभावलक्षणत्वाच्चतुर्विंशतिस्तवादीनां च तद्भेदत्वात्, अस्य च सामायिकाध्ययनस्य महापुरस्येव | चत्वारि अनुयोगद्वाराणि भवन्ति, अनुयोगो नाम सूत्रस्य व्याख्यानं तस्य द्वाराणीव द्वाराणि-तत्प्रवेशमुखानि अनुयोगद्वाराणि, यथा हि अकृतद्वारं नगरमनगरमेव भवति, कृतैकद्धारमपि हस्त्यश्वरथजनसङ्खलत्वात् दुःखसञ्चारं कायोति
पत्तये च जायते, कृतचतुर्मूलपतोलीद्वारं तु सप्रतिद्वारं सुखनिर्गमप्रवेश कार्यानतिपत्तये च, सामायिकपुरमप्याधिदिगमोपायद्वारशून्यमशक्याधिगमं भवति, कृतकानुयोगद्वारमपि कृच्छ्रेण द्राधीयसा च कालेनाधिगम्यते, विहितसप्रमे
दोपक्रमादिद्वारचतुष्टयं तु सुखाधिगममल्पीयसा च कालेनाधिगम्यते, ततः फलवाननुयोगद्वारोपन्यासः, उक्कं च"अणुओगद्दाराई महापुरस्सेव तस्स पत्तारि । अणुओगोति तदत्यो, दाराई तस्स उ मुहाई ॥१॥ अकयद्दारमनगर,
Furtu
Fercoma Us
... अत्र अनुयोगद्वाराणि दर्शयते
~2014