________________
आगम
(४०)
[भाग-3] “आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) १
अध्ययनं H, नियुक्ति: [७९], भाष्यं , वि०भा०गाथा -1, मूलं [- /गाथा-] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [९] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्तिः ।
प्रत सूत्रांक
-
दीप अनुक्रम
सञ्चरन्तः पतकीटाः समागत्य मांसाद्यामिपोपभोगलुब्धाः कीलकान्तरेष्वितस्ततः परिवमन्तो लालाः प्रमुञ्चन्ति, ताश्च कीलकेषु लग्नाः परिगृह्यन्ते, एतत्पसूत्रमभिधीयते, अनेनैव क्रमेण मलयविषयोत्पन्नं तदेव मलयं, इत्थमेव चीनविषयवहिरुत्पन्नमंशुकम् , इत्थमेव चीनविषयोत्पन्नं तदेव चीनांशुकमित्यभिधीयते, क्षेत्रविशेषाद्धि कीटविशेषः, कीटविशेषाञ्च पट्टसूत्रादिव्यपदेशविशेष इति, एवं क्वचिद् विषये मनुष्यादिशोणितं गृहीत्वा केनापि योगेन युक्तं भाजनसम्पुटे स्थाप्यते, तत्र च प्रभूताः कृमयः समुत्पद्यन्ते, ते च वाताभिलापिणो भाजनच्छिद्रैर्निर्गत्य तदासन्नं पर्यटन्तो यल्लालाजालमभिमुञ्चन्ति तत्कमिरागं पट्टसूत्रमुच्यते, तच्च रक्तवर्णकृमिसमुत्थत्वात् स्वपरिणामत एव रक्तं भवति, अन्ये त्वभिदधति-यदा तत्र शोणिते कृमयः समुत्पन्ना भवन्ति तदा सकृमिकमेव तन्मलित्वा किट्टिसं परित्यज्य रसो गृह्यते, तत्र च कश्चिद्योगः प्रक्षिप्यते, | तेन यद्रज्यते पट्टसूत्र तस्कृमिरागमिति, तच्च धौताधवस्थास्वपि न मनागपि राग मुश्चति, वालजं पञ्चविधं, तद्यथा
आणिकमौष्टिक मृगलोमिक कौत किट्टिसं च, तत्र ऊर्णामयं और्णिकम्, औष्ट्ररोमनिष्पन्नमौष्ट्रिक, मृगाकृतयो बृहत्पुच्छा
आटविका जीवविशेपा मृगास्तल्लोमनिष्पन्नं मृगलोमिक, उदररोमनिष्पन्नं कौतवम् , ऊर्णादीनां यदुद्धरित किट्टिसं तनिष्पन्नं ४ तिसूत्रमपि किट्टिस, वल्व सणप्रभृति, भावश्रुतं द्विधा-आगमतो नोआगमतश्च, तत्र आगमतो ज्ञाता उपयुक्तः, नोआ
गमतो द्विविध-लौकिक लोकोचरं च, तत्र लौकिक भारतरामायणादि, लोकोत्तरं द्वादशाहं गणिपिटकम् । आवश्यक नोआगमतो भावभुतं, नोशब्द एकदेशवचनः, तस्य चेमान्येकार्थिकानि-श्रुतं सूत्र ग्रन्थः सिद्धान्तः प्रवचनमाज्ञा वचनं उपदेशः प्रज्ञापना आगमः उक्तं च---"सुयसुत्तगंथसिद्धंतपवयणे आणवयणउवएसे। पण्णवणआगमे या एगठा
Fur P
arcoma Us
~199~