SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-3] “आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) १ अध्ययनं , नियुक्ति: [७८], भाष्यं , वि०भा०गाथा -1, मूलं [- /गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्तिः । प्रत सूत्रांक - *-5 % सिद्ध केवलज्ञान १ मतीथसिद्धकेवलज्ञानं २ तीर्थकरसिद्धकेवलज्ञान ३ मतीर्थकरसिद्धकेवलज्ञानं ४ स्वयंबुद्धसिद्धकेवलज्ञानं ४५ प्रत्येकबुद्धसिद्धकेवलज्ञानं ६ बुद्धबोधितसिद्धकेवलज्ञानं ७ स्त्रीलिङ्गसिद्धकेवलज्ञानं ८ पुरुषलिङ्गसिद्धकेवलज्ञानं ९ नपुं सकलिङ्गासिद्धकेवलज्ञानं १० स्वलिङ्गसिद्धकेवलज्ञान ११ मन्यलिङ्गसिद्धकेवलज्ञानं १२ गृहिलिङ्गसिद्धकेवलज्ञानं १३ एकसिद्धकेवलज्ञानं १४ अनेकसिद्ध केवलज्ञानं १५ च । तत्र ये तीर्थकराणां तीर्थे वर्तमाने सिद्धास्तेषां यत्केवलज्ञानं तत्तीर्थसिद्ध-| केवलज्ञानम् , यत्पुनस्तीर्थकराणां तीर्थेऽनुत्पन्ने व्यवच्छिन्ने वा सिद्धास्तेषां यत्केवलज्ञानं तदतीर्थसिद्धकेवलज्ञानं, तीर्थकराः सन्तो ये सिद्धास्तेषां केवलज्ञानं तीर्थकरसिद्धकेवलज्ञानं, शेषाणामतीर्थकरसिद्धकेवलज्ञानं, तथा स्वयंबुद्धाः सन्तो ये सिद्धास्तेषां केवलज्ञानं स्वयंवुद्धसिद्धकेवलज्ञानं, प्रत्येकबुद्धाः सन्तो ये सिद्धास्तेषां केवलज्ञानं प्रत्येकबुद्धसिद्धकेवलज्ञानम्, अथ स्वयंवुद्धप्रत्येकबुद्धानां का प्रतिविशेषः?, उच्यते, बोध्युपधिश्रुतलिङ्गकृतः, तथाहि-स्वयंबुद्धा बाह्यप्रत्ययमन्तरेणैव बुध्यन्ते, स्वयमेव-बाह्यप्रत्ययमन्तरेणैव निजजातिस्मरणादिना बुद्धाः स्वयंबुद्धा इति व्युत्पत्तः, आह च चूर्णिकृत्-"सयमप्पणिज्जं जाइस्सरणादिकारणं पडुच्च बुद्धा सयंवुद्धा" इति, ते च द्विधा-तीर्थकरास्तीर्थकरव्यतिरिकाच, यह तीर्थकरव्यतिरिक्तैरधिकारः, आह च चूर्णिकृत्-"ते सर्यबुद्धा दुविहा-तित्थयरा तित्थयरवइरित्ता य, इह वइरित्तेहिं अहि गारों' इति, प्रत्येकवुद्धास्तु बाह्यं प्रत्ययमपेक्ष्य, प्रत्येक बाह्य-दृषभादिकं कारणमभिसमीक्ष्य बुद्धाः प्रत्येकबुद्धाः इति व्यु*त्पत्तेः, तथा च श्रूयते बाह्यप्रत्ययसापेक्षा करकण्डादीनां बोधिः, बहि:प्रत्ययमपेक्ष्य ते च बुद्धाः सन्तो नियमतः प्रत्येकमेव विहरन्ति, न गच्छवासिन इव संहताः, उक्तं च चूर्णी-"पत्तेयं बाह्यं वृषभादिकं कारणमभिसमीक्ष्य बुद्धाः प्रत्येकबुद्धाः, दीप अनुक्रम % % % % 4 Edonon Fur From ~189
SR No.035063
Book TitleSavruttik Aagam Sootraani 2 03 Aavashyak Niryukti evam Vrutti Aagam 40 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy