________________
आगम
(४०)
[भाग-3] “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) १
अध्ययनं , नियुक्ति: [७८], भाष्यं , विभा गाथा [१४१,८३१], मूलं - गाथा-] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [९] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्तिः ।
प्रत सूत्रांक
दीप अनुक्रम
सवितेव प्रकाशं देशनामातनोति, तत्राव्युत्पन्न विनेयाना केषांचिदेवमाशङ्का भवेत्-भगवतोऽपि तीर्थकृतस्तावत् द्रव्यश्रुतं || ध्वनिरूपं विद्यते, द्रव्य श्रुतं च भाव श्रुतपूर्वकं, ततो भगवानपि श्रुतज्ञानीति, ततस्तदाशङ्कापनोदार्थमाह- केवलनाणेणऽत्थे नाउं जे तत्थ पन्नवणजोग्गे । ते भासइ तित्थयरो, वइजोगसुयं हवा सेसं ॥७८॥ TH
केवलज्ञानेन 'सर्व वाक्यं सावधारण मिति न्यायात् केवलज्ञानेनैव, न श्रुतज्ञानेन, तस्य शायोपशमिकभावातिकमात्, सर्व-181 क्षये देशक्षयाभावात्, अर्थान-धर्मास्तिकायादीनभिलाप्यानभिलाप्यान् ज्ञात्वा-विनिश्चित्य ये तत्र-तेषामभिलाष्यानां मध्ये प्रज्ञापनयोग्या अभिलाप्या इत्यर्थः तान भाषते, नेतरान्, तानपि प्रज्ञापनयोग्यान भाषते, न सर्वान, तेषामनन्तत्वेन सर्वेषां |भाषितुमशक्यत्वात् , वाचः क्रमवर्तित्वाच, आयुषश्च परिमितत्वात् , किन्तु कतिपयानेवानन्तभागमात्रान् , आह च भाष्य|कृत्-"पण्णवणिज्जा भावा अणंतभागो उ अणभिलप्पाणं । पण्णवणिजाणं पुण अणंतभागो सुयनिबद्धो ॥१॥"(वि.१४१) तत्रापि तान् कतिपयान् भाषते ग्राहकापेक्षया योग्यान् , तत्रापि यावन्मात्रे भणिते शेष स्वयमप्यभ्यूहितुमीष्टे तावन्मात्र, न त्वम्यूह्यमपि, उक्तं च-"तत्थवि जोग्गे भासइ नाजोग्गे गाहगाणुवित्तीए । भणिएवि जंमि सेसं सयमूहइ भणइ तम्मत्तं ||"(वि.८३१) तत्र केवल ज्ञानोपलब्धार्थाभिधायकः शब्दराशिःप्रोच्यमानस्तस्य भगवतो वाग्योग एव भवति, न श्रुतं, तस्य |भाषापर्यायादिनामकर्मोदयनिबन्धनत्वात् , श्रुतस्य च क्षायोपशमिकत्वात् , स च वाग्योगो भवति श्रुतं शेषम्-अप्रधान, द्रव्यश्रुतमित्यर्थः, श्रोतणां भावश्रुतकारणतया द्रव्यश्रुतं व्यवहियते इति तात्पर्यार्थः, अन्ये त्वेवं पठन्ति-'वइयोग सुर्य हवइ तेसिं' तत्रायमर्थः-तेषां श्रोतां श्रुतकारणत्वात् स वाग्योगः श्रुतं भवति, श्रुतमिति व्यवहियते इत्यर्थः, अथवा
~187