________________
आगम
(४०)
[भाग-3] "आवश्यक"- मूलसूत्र
अध्ययनं , नियुक्ति: [४६], भाष्यं H, वि०भा०गाथा [६८९], मूलं - गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति: ।
प्रत
सूत्रांक
दीप अनुक्रम
क्षेत्रप्रमाणकारिणः प्रागभिहिता एवाग्निजीवाः, इदमुकं भवति-उत्कृष्टावधेविषयत्वेन क्षेत्रतो येऽसवेया लोकाः प्रोक्तास्ते प्रागभिहितस्वागवाहनाव्यवस्थापितोत्कृष्टासङ्ख्येयसूक्ष्मवादराग्निजीवसूच्या परमावधिमतो जीवस्य सर्वतोधम्यमाणया यत्प्रमाणं क्षेत्र व्याप्यते तत्प्रमाणाः समवसेया इति, ननु रूपगतं लभते सर्वमित्येत्तदनन्तरगाथायामर्थतोऽभिहितमेव ततः किमर्थं पुनरत्राभिहितम् , तदयुक्तम् , अत्रार्थे परिहारस्य प्रागेयोकत्वाद्, अथवा अनन्तरगाथायामेकप्रदेशावगाढमित्यादि
परमावधेः द्रव्यपरिमाणमुक्तम् , इह तु रूपगतं लभते सर्वमिति क्षेत्रकालयोर्विशेषणं, तच्चैवम्-क्षेत्रकालद्वयं लोकमात्राहै सश्वेयखण्डासयेयोत्सपिण्यवसर्पिणीलक्षणं यदि रूपिद्रव्यानुगतं भवति ततः समस्तं लभते, न केवलं, तस्यारूपित्वाद
वधिज्ञानस्य च रूपिद्रव्यनिबन्धनत्वात् , इत्थंभूत परमावधिकलितश्च नियमादन्तर्मुहूर्त्तमात्रेण केवलालोकलक्ष्मीमासाहैदयति, उक्तं च-परमोहिमाणविदो केवलमंतोमुहुत्तमेत्तेण' (वि.६८९) ॥ तदेवं मनुष्यानधिकृत्य क्षायोपशमिका खल्व नेकप्रकारोऽवधिरुता, सम्प्रति तिरश्चोऽधिकृत्य तं प्रतिपिपादयिषुराह
"आहारतेयलंभो, उक्कोसेणं तिरिक्खजोणीसु । गाउय जहण्णमोही नरएमु य जोयणुकोसो॥ ४६॥" हा आहारश्च तेजश्च आहारतेजसी तयोर्लाभः प्राप्तिः परिच्छित्तिरित्येकोऽर्थः आहारतेजोलाभः, सूत्रे च लम्भ
इति निर्देशःप्राकृतत्याद, आहारतेजोमहणामुपलक्षणं, ततः यान्यौदारिकवैक्रियाहारकतैजसव्वाणि यानि च तदन्तरालेप
तदयोग्यानि तेषां सर्वेषामपि परिग्रहणं, उत्कर्षतस्तिर्यग्योनिषु, किमुकं भवति:-तैर्यग्योनिकसत्त्वाधारो योऽवधिः स उत्कपार्षत औदारिकवैक्रियाहारकतेजोगव्याणि तदन्तरालद्रव्याणि च सर्वाणि पश्यतीति, उक्तं च-"ओरालियवेउबियआहार
~149~