SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [H] दीप अनुक्रम [-] [भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) १ अध्ययनं [-], निर्युक्तिः [ ४४], भाष्यं [-] वि० भा० गाथा [-], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः "युगपएसोगाढं, परमोही लहइ कम्मगसरीरं । लहर अ अगुरुअलहुअं तेअसरीरे भवहुतं" ॥ ४४ ॥ प्रकृष्टो देशः प्रदेशः एकश्चासौ प्रदेशश्च एकप्रदेशः तस्मिन्नवगाढं व्यवस्थितं एकप्रदेशावगाढं- परमाणुव्यणुकादि द्रव्यं, परमश्चासाववधिश्च परमावधिः उत्कृष्टावधिरित्यर्थः, लभते पश्यति, अवध्यवधिमतोरमेदोपचारादवधिः पश्यतीत्युक्तम्, तथा कार्मणशरीरं च लभते आह-परमाणुद्व्यणुकादिकं द्रव्यमनुक्तं कथं लभ्यते १ यावता एकप्रदेशावगाढं | कार्मणशरीरमित्युपात्तमेव कस्मान्न योज्यते ?, तदसम्यक्, कार्मणशरीरस्य जीवप्रदेशानुसारितया सङ्ख्यातीत प्रदेशावगाहिस्वेनैकप्रदेशावगाढत्वायोगात्, लभते चागुरुलघु चशब्दाद् गुरुलघु च जात्यपेक्षया सर्वमे (त्र) कवचनम्, ततः सर्वाण्यध्ये|कप्रदेशावगाढानि कार्मणशरीराणि अगुरुलघूनि गुरुलघूनि च द्रव्याण्यसौ पश्यतीति प्रतिपत्तव्यमिति, तथा तैजसशरीरविषयेऽवधौ कालतो भवपृथक्त्वं तेनासत्येयेन कालेन विशिष्यते, भवपृथक्त्वमध्य एव स पत्योपमासङ्ख्येयभागः कालो नाधिकः, एतन्मध्ये एव च भवपृथक्त्वं न तदतिक्रमेऽपीति । आह-- नन्वेकप्रदेशागादस्य परमाण्वादेरतिसूक्ष्मत्वात् तदुपलम्भे वादराणां कार्मणशरीरादीनामुपलम्भो गम्यते एव ततः किमर्थ तेषां पृथगुपन्यासो १, व्यर्थत्वाद्, अथवा | एकप्रदेशावगाढमित्यपि न वक्तव्यम्, 'रूपगतं लभते सर्व' मित्यस्य वक्ष्यमाणत्वात्, तदयुक्तं सम्यग्वस्तुतत्त्वापरिज्ञानात्, तथाहि यः सूक्ष्मं परमाण्वादि पश्यति तेन वादरं कार्म्मणशरीरादिकमवश्यं द्रष्टव्यम् यो वा त्रादरं पश्यति तेन सूक्ष्ममप्यवश्यं ज्ञातव्यमिति न कोऽपि नियमः, यतः 'तेयाभासादद्वाणमंतरा' इत्युदिवचनात् प्रथमोत्पत्तावगुरुलघुद्रव्यं पश्यश्नप्यवधिर्न गुरुलघुपलभते, अन्यद्वा अतिस्थूरंमपि घटादिकं, तथा मनःपर्यायज्ञानी मनोद्रव्याणि सूक्ष्माण्यपि 1 Far Fate & Personal Use Only ~ 147~
SR No.035063
Book TitleSavruttik Aagam Sootraani 2 03 Aavashyak Niryukti evam Vrutti Aagam 40 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy