________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) १
अध्ययनं [-], निर्युक्ति: [ १३-१५], भाष्यं [-] वि० भा०गाथा [ ४३०-४३२], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
पोद्धा
॥ ४३ ॥
| मधः पञ्चसु चतुर्दशमानेष्विति, आहच भाष्यकृत् - "खेतं हवेज्ज चउदस मागा सन्तोवरिं आहे पंच | इलियागईऍ विग्गहगयस्स गमणेऽहवाऽऽगमणे ॥१॥ (वि०४३० ) ” कार्मग्रन्थिकाभिप्रायेण तु वैमानिकदेवेभ्योऽन्यत्र तिर्यङ् मनुष्यो वा वान्तेनैव क्षायोपशमिकेनोत्पद्यते, न गृहीतेन, सप्तमनरकपृथिव्यां पुनरुभयमतेनापि वान्तेनैव, आह- अपः सक्षमनर कपृथिव्यामपि सम्यग्दर्शनलाभस्य प्रतिपादितत्वात् तत आगच्छतः पञ्च चतुर्दशभागा अधिका अपि क्षेत्रस्य लभ्यन्ते, ततः कथमुक्तं पञ्चसु चतुर्द्दशसु भागेष्विति, तदप्ययुक्तं, सष्ठमनरकपृथिव्याः सम्यग्दृष्टेरागमनस्याप्यभावात् कथं ?, यस्मात् तत उद्वृत्तास्तिर्यश्वेवागच्छन्ति, देवनारकाञ्च सम्यग्दृष्टयो मनुष्येष्विति, उक्तं च- "आगमपि निसिद्धं चरमाओ जंति जं तिरिक्सेसुं । सुरनारगा य सम्मद्दिट्ठी जं पंति मणुपसुं ॥१॥ (वि०४३१) अधुना स्पर्शनाद्वारम्-तत्र क्षेत्रस्पशेनयोरयं विशेष:- यत्रावगाहस्तत् क्षेत्रं, स्पर्शना तु ततोऽतिरिक्ता, यथेह पर माणोरेकप्रदेशं क्षेत्रं सप्तप्र देशा च स्पर्शना, उक्तं - " अवगाहणाइरिचंपि फुसई बाहिँ जहाणुणोऽभिहियं । एगपएसं खेतं सत्तपएसा व से फुरुणा ॥१॥” (वि०४३२) एतश्च प्रागप्यभिहितं ॥ काठद्वारे उपयोगमधिकृत्य एकस्य अनेकेषां च जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्तमात्र एव कालः, लब्धिमङ्गीकृत्य जघन्येनैकस्वान्तर्मुहूर्त्त उत्कर्षतः षट्षष्टिसागरोपमाणि अधिकानि, कथमिति चेत्, उच्यते, इह कश्चित्साधुर्मत्यादिज्ञानान्वितो देशोनां-पूर्वकोटीं यावत् प्रब्रज्यां परिपाल्य विजयवैजयन्तजयन्तापराजित विमानानामन्यतमस्मिन् विमाने उत्कृष्टं त्रयस्त्रिंशत्सागरोपमपरिमाणं देवायुरनुभूय पुनरप्रतिपतितमत्यादिज्ञान एव मनुजेषूत्पन्नो देशोनां पूर्वकोटीं प्रब्रज्यां विषाय तदेव विजयादिषूत्कृष्टमायुः संप्राप्य पुनरपि अप्रतिपतितमत्यादिज्ञान एक मनुष्येषु पूर्वकोटीं जीवित्वा सिद्धयति,
108~
मतो द्रव्य
प्रमाणक्षे
त्रस्पर्शना
॥ ४३ ॥