________________
आगम
(४०)
[भाग-3] "आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) १
अध्ययनं , नियुक्ति: [१३-१५], भाष्यं H, वि०भा०गाथा , मूलं - गाथा-] | पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति:
य
प्रत सूत्रांक
दीप
नत्रापि व्यवहारनिश्चयनयाभ्यां विचारः, तत्र व्यवहारनयमतेन मतिश्रुतावधिमनःपर्यायज्ञानिनः आमिनित्रोधिकस्य पूर्वप्रतिपन्ना एव, नतु प्रतिपद्यमानकाः, न होतन्मतेन ज्ञानी सन् मतिज्ञानं प्रतिपद्यते किन्त्वज्ञानी इति, केवली न तु पर्वप्रतिपन्नो नापि प्रतिपद्यमानकः, तस्य क्षायोपशमिकज्ञानातीतत्वात् , तथा मत्य ज्ञानश्रुताज्ञान विभङ्गज्ञानवन्तस्तु कदाचि-I द्विवक्षितकाले प्रतिपद्यमानका भवन्ति, न तु पूर्वप्रतिपन्नाः, निश्चयनयमतेन तु मतिश्रुतावधिज्ञानिनः पूर्वप्रतिपन्ना | नियमतः सन्ति, प्रतिपद्यमानका अपि सम्भवन्ति, सम्यग्दर्शनलाभसमय एव मत्यादिलाभस्य सम्भवात्, क्रियाकालनिष्टाकालयोश्चाभेदात्, मनःपर्यायज्ञानिनस्तु पूर्वप्रतिपन्ना एव, न प्रतिपद्यमानकाः, पूर्व सम्यक्त्वलाभकाले प्रतिपन्नमतिज्ञानस्यैव पश्चात् यत्यवस्थायां मनःपर्यायज्ञानमद्भावात् , केवलिनां तूभयाभावः, मत्यादिज्ञानव्यवच्छेदेन केवलज्ञानभावात् , मत्याद्यज्ञानवन्तस्तु न पूर्वप्रतिपन्ना, नापि प्रतिपद्यमानकाः, प्रतिपत्तिक्रियाकाले मत्याद्यज्ञानाभावात्, क्रियाकालनिष्ठाकालयोरभेदात् , अज्ञानभावे च प्रतिपत्तिक्रियाया अभावात् , दर्शनद्वारे चक्षुरचक्षुरवधिकेवलभेदात् दर्शनं चतुर्दा, तत्राद्यदर्शनत्रये लन्धिमगीकृत्य पूर्वप्रतिपन्ना नियमतः प्राप्यन्ते, प्रतिपद्यमानकास्तु भजनीयाः, तदुपयोग वाश्रित्य पूर्वप्रतिपन्ना एव, न नु प्रतिपद्यमानकाः, मतिज्ञानस्य लब्धित्वात् , लब्ध्युत्पत्तेश्च दर्शनोपयोगे निषिद्धत्वात् । 'सबाओ लद्धीओ सागारोवओगोवउत्तस्स उववति' इति वचनात् , केवलदर्शनिनां तूभयाभावः, देशदर्शनव्यवच्छेदेन ? केवलज्ञानदर्शनभावात् , संयतद्वारे संयत आभिनिवोधिकस्य पूर्वप्रतिपन्नो नियमाल्लभ्यते, प्रतिपद्यमानको भजनया, ननु । सम्यक्त्वलाभावस्थायामेव मतिज्ञानस्य प्रतिपन्नत्वात् संयतः कथं प्रतिपद्यमानकोऽवाप्यते !, सत्यमेतत् , केवलं योऽतिवि-1,
अनुक्रम
... निश्चय एवं व्यवहार-मतेन मति आदि ज्ञानानां लाभ-अलाभस्य वर्णनं
~105