________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) १
अध्ययनं [-], निर्युक्ति: [ १३-१५], भाष्यं [-] वि० भा० गाथा [४१४ ], मूलं [- /गाथा -] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
॥ ४० ॥
विहाराभ्या ज्ञानलाभः
उपोद्घाते ४ क्वद्वारे निश्चयव्यवहारनयाभ्यां विचारः, तत्र व्यवहारनयो मन्यते - मिथ्यादृष्टिरज्ञानी च सम्यक्त्वज्ञानयोः प्रतिपद्यमा निश्चयव्यनको भवति, न तु सम्यक्त्वज्ञानसहितः, निश्चयनयस्तु ब्रूते सम्यग्दृष्टिर्ज्ञानी च सम्यक्त्वज्ञाने प्रतिपद्यते, न तु मिथ्याहष्टिरज्ञानी च, आह च भाष्यकृत् - "सम्मत्तनाणरहियस्स नाणमुष्पजाइत्ति ववहारो । नेच्छइयनओ भासह उपज्जइ तेहिं सहियस्स ॥ १ ॥ (४१४ वि०)" तत्र व्यवहारः परपक्षदूषणाय स्वपक्षसाधनाय च प्रत्यवतिष्ठते यदि नाम सम्यग्दृष्टिज्ञांनी च सम्यक्त्वज्ञाने प्रतिपद्यते इत्यभ्युपगमस्ततस्तत्सम्यक्वं ज्ञानं च जातमसावुत्पादयति, न च जातं भूयो जायते, जातत्वादेव, निष्पन्नघटवत्, प्रयोगश्चात्र- यद्विद्यमानं तत्केनचिदपि कर्त्तुं न शक्यं यथा पूर्वनिष्पन्नो घटः, विद्यमाने च सम्यगदृष्टेः सम्यक्त्वज्ञाने इति, विपक्षे बाधकं प्रमाणमनवस्थाप्रसङ्गः क्रियावैफल्यं च, तथाहि —- यदि कृतमपि क्रियते तर्हि कृतत्वाविशेषात् भूयो भूयः करणप्रसङ्गः, पूर्वनिष्पन्नत्वेन क्रियायाः फलाभावान्नैष्फल्यमिति, अन्यच्च - प्रत्यक्षवाधा, तथाहि-- सर्वमपि कार्यं घटादि पूर्वमभूतं भवत् दृश्यते नतु भूतं, अथ क्रियाकालनिष्ठाकालयोरभेदादेवमुच्यते सम्यदृष्टिर्ज्ञानी च सम्यक्त्वं ज्ञानं च प्रतिपद्यते इति, तदप्ययुक्तं, क्रियाकालनिष्ठाकालयोरभेदस्याभावात्, प्रत्यक्षत एव घटादिक्रियाकालस्य दीर्घतयोपलभ्यमानत्वात्, न खल्वारम्भ एवं शिवकाद्यद्धायां वा घटादिकार्य पश्यामः, किन्तु विवक्षितक्रियाकालपर्यन्ते, एवमत्रापि न श्रवणाद्यारम्भ एवं ज्ञानं, किन्तु तदन्त इति मिथ्यादृष्टिरज्ञानी च सम्यक्त्वज्ञानयोः प्रतिपत्ता, न सम्यग्दष्टिर्शानी चेति, उक्तं च-- "ववहारमयं जायं न जायए भावतो कयघडोब । अहवा कयंपि किञ्चइ किख नि न य समत्ती ॥१॥ किरिया वेफलंचिय पुत्रमभूयं च दीसए होंतं । दीसइ दीहो य जतो किरियाकालो घडादीणं ॥२॥
For Private & Personal Use Only
102~
॥ ४० ॥