SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-3] "आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) १ अध्ययनं , नियुक्ति: [१३-१५], भाष्यं , वि०भा०गाथा , मूलं - गाथा-] | पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति: प्रत सूत्रांक H दीप अनुक्रम यास्तु करणापर्याप्तावस्थायां पूर्वभवायातं सास्वादनसम्यक्त्वमङ्गीकृत्य पूर्वप्रतिपन्नाः सम्भवन्ति, नतु प्रतिपद्यमानकाः, एकेन्द्रियास्तूभयविकलाः, 'उभयाभावो एगिविएसु संमत्तलखीए' इतिवचनात् । तथा 'काए' इति कायानधिकृत्य विचा-| येते, पृथिव्यवेजोवायुवनस्पतित्रसकायभेदात् कायाः पद, तत्र त्रसकाये पूर्वप्रतिपक्षा नियमतो विद्यन्ते, प्रतिपद्यमानास्तु भाज्या, शेषकायेषु तु पृथिव्यादिषु पञ्चसु उभयाभावः, एतच्च सिद्धान्ताभिप्रायेण, कार्मग्रन्थिकाभितायेण लब्धि-1 पर्याप्तवादरपृथिव्यवनस्पतिकरणापर्याप्लेषु पूर्वप्रतिपन्नाः सम्भवन्ति, सास्वादनसम्यक्त्वस्य तदभिप्रायेण तेषु भायात्, इतरे तु सर्वथा नैव, तेजोवायवस्तूभयविकला एव । तथा 'जोए' इति योगानधिकृत्य विचार्यते-योगास्त्रयः, तद्यथा-मनोयोगो वाग्योगः काययोगश्च, तत्र त्रिषु योगेषु समुदितेषु पञ्चेन्द्रियवद्वक्तव्यं, मनोरहितवाग्योगिषु विकलेन्द्रियवत्, केवलकाययोगिथ्वेकेन्द्रियवत् । तथा 'ए' इति वेदानधिकृत्य विचारणा, वेदाश्च त्रयः, तद्यथा-स्त्रीवेदः पुरुषवेदो नपुंसकवेदश्च, तन्त्र विष्वपि वेदेषु विवक्षितकाले पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानकास्तु भाज्याः, कपायाः क्रोधमानमायालोभाख्याः प्रत्येकमनन्तानुवन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदभिन्नाः, तत्रायेषनन्तानुबन्धिषु क्रोधादिषु सास्वादनसम्यक्त्वमङ्गीकृत्य पूर्वप्रतिपन्नो लभ्यते, न प्रतिपद्यमानकः, शेषेषु तु द्वादशकषायेषु पूर्वप्रतिपन्ना नियमतः सन्ति प्रतिपद्यमानकास्तु भाज्याः, तथा 'लेसासु'इति लेश्यासु चिन्त्यते, तत्र श्लेषयन्त्यात्मानमष्टविधेन कर्मणेति लेश्याः, कायाद्यन्यतमयोगवतः कृष्णादिद्रव्यसम्बन्धादात्मनः कृष्णादिपरिणामाः, तत्रोपरितनीषु तिसषु लेश्यासु पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानकास्तु भाज्याः, आधासु कृष्णादिकासु तिसृषु पूर्वप्रतिपन्नाः सम्भवन्ति न वितरे, सम्य 442 ~101~
SR No.035063
Book TitleSavruttik Aagam Sootraani 2 03 Aavashyak Niryukti evam Vrutti Aagam 40 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy