________________
आगम
(४३)
प्रत
सूत्रांक
[१२..]
गाथा
||७५९
७८२||
दीप अनुक्रम
[७७३
७९६]
भाग-7 “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [२१],
मूलं [१२..] / गाथा ||७५९...७८२/७७३-७९६]], निर्युक्तिः [४२८...४४२/४२३-४३६], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
२१
समुद्रपा०
॥२६२॥
श्री उत्तरा० २ भूतेहिं इत्यादि गतार्था । 'कालेण' इत्यादि ७७२-६८७) काले कारणभूतेन यद् यस्मिन् काले कर्त्तव्यं तत् तस्मिन्नेव समाचरति, चूर्णी स्वाध्यायकाले स्वाध्यायं करोति, एवं प्रतिलेखनाकाले प्रतिलेखयति, वैयावृत्यकाले वैयावृत्यं, उपसर्गकाले उपसर्ग, अपवादकाले अपवादं करोति, राष्ट्रविषये आत्मनश्च बलावलं ज्ञात्वा सिंह इव साध्वसजादेत (सो) न त्रासं गच्छति, वाङ्मात्रमेव इदं, असत्यमपि न चिंतयति, स तत्र गच्छति, एवं सर्वार्थेषु रागद्वेषात्मकेषु दृढो भवति । 'उवेदमाणी' इत्यादि (७७३-४८७) उपेक्षां कुर्वन् परिव्रजति, प्रियमप्रियं सर्व समानं सर्वकार्येषु अभिरोचयति, अपवादं न सर्वकालमेव रोचयतीत्यर्थः, न चापि पूजायां सति करोति, न च परापवादं करोति । 'अणेगछंदा' इत्यादि ( ७७४ ) यावत्परिसमाप्तं, छन्दोऽभिप्रायः, अनेकाभिप्राया इह मानवेषु दृश्यन्ते, रागद्वेषात्मको यस्तेष्वनिष्टेषु द्वेषं करोति स कर्म्मबन्धको भवति, के च ते १, भयानकाः- भैरवाः, तत्र तस्मिन् मनुष्यलोके उपगच्छन्ति दिव्या मानुष्याः तैरवा वा, तथा परीषदा अनेके उदयं गच्छति यत्र सीदन्ति कातराः, स भिक्षुस्तत्र न सीदति, संग्राममध्ये इव हस्तिराजा, परीपहा विशेष्यन्ते, शीतोष्णदंशमशकादयः, आतंका- रोगाः, ते च नानाप्रकाराः स्पृशंति तान्, अककर:- अनाक्रन्दं, अधियासेति, राजसैः पुराकृतानि कर्माणि क्षपयति, प्रदाय रागं च द्वेषं च अज्ञानं च विचक्षणो भिक्षुः, मेरुर्यथा वायुना न चाल्यते, एवं परीसहोपसर्गेर्येथा न चाल्यते तथा करोति, तथा नात्यर्थमुन्नतेन न चात्यर्थमवनतेन किं ? - युगान्तरप्रलोकिना गन्तव्यं, महर्षिणाम महान्तं वा एषते यः स महर्षी, मोक्षार्थीत्यर्थः, न पूजायां सक्तिं करोति, न चापवादं करोति, किन्तु ऋजुभावं प्रतिपद्यते स एवंविधः निर्वाणमार्गमुपैति । 'संयमे अरहरइस हे० ' ।। ७७९-४८७।। संयमे अरतिः असंयमे च या रतिः तां सहति, संस्तवो वचनसंस्तवः संवासश्च तच्च त्यजति, अकर्त्तव्येषु विरतः, स आत्मसहितं करोति, प्रधानश्च भवति,
[275]
समुद्रस्य साधुता
॥२६२॥