________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[3]
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 2 निर्युक्ति: [ ९५३ / ९५३ ].
अध्ययनं [-]
भाष्यं [ १५१...]
मूल [१] / [गाथा-],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि -2
नमस्कार व्याख्यायां
॥५७७||
| पल्योपमस्य संख्येयभागेन गुणिताः, प्रथमसमयकृताः कृष्टयः श्रेण्या असंख्येयभागप्रमाणाः, एवं द्वितीयादिष्वपि समयेषु श्रेण्या असंख्येय भागप्रमाणाः तावद्यावत्क्रष्टिकरणस्यांतश्चाशेषो युगपनष्टः । अधुनाऽऽयुपा समाणि कर्माणि जातानि अधुना सूक्ष्मक्रियाप्रतिपातिष्यानादिसप्तप्रकारार्थोच्छित्यनन्तरसमय एवं योगिनः अयोगिनः, अयोगिगुणस्थानपर्यायमास्कन्दन्तः अयोगिपर्यायेण विनाशस्तेनैव चोत्पादः केवलिपर्यायेणावस्थानं, अयोगिपर्यायेत्यनन्तरमेव सैलेस्यपर्यायमवाप्नोति व्युपरतक्रियानिवृत्तिं च ध्यानं ध्यायति, चिन्ताव्यापाराभावात् ध्यानाभाव इति चेत् न, कर्मक्षपणसामान्याद् ध्यानमिव ध्यानमिति तत्सिद्धेः, कथम् ?, इह यथा पृथक्त्वैकत्ववितर्कपूर्व शुक्लध्यानद्वयपरिणत आत्मार्थान् चिन्तयन् सांपरायिकं दहति यथा वा धर्मस्य ध्याने परिणतः कर्मपर्वतं क्षपयति तथा सूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवृत्तिध्यानद्वयपरिणतोऽप्यांत्मा असत्यामपि चिन्तायां कर्म क्षपयतीत्यतः कर्मक्षपणसामान्यात् ध्यानमिव ध्यानमिति सिद्धं, अथवा दृष्टत्वादुपयोगवत् ध्यानमित्र ध्यानं, इहासर्वज्ञस्य उपलिप्सोराभोगकरणम्पयोगः न च ज्ञानावरणातीतत्वाद्भगवानृपलिप्सुः, कथंः, सर्वार्थप्रत्यक्षत्वाद्, अथ च पदार्थावगमसामान्यमनु भक्ति, उपयोग इवोपयोगः, क उपमार्थः १, इह यथा क्षायोपशमिकोपयोगपरिणत आत्मार्थानेकदेशेन संगच्छमान उपयुक्त इति शब्यते तथा केवलज्ञानपरिणतोऽप्यात्माऽर्थान् साकल्येन संगच्छमानोऽसत्यामप्युपलिप्सायां अर्थावगमसामान्यादुपयुक्त इति शब्द्यते, न चोपलिप्सापूर्वक उपयोगो भगवति नास्तीत्यत उपयोगाभावः प्रतिज्ञायते, साकाराष्ट्रतयोपयोगप्रतिज्ञानात, न चोपयोगं कृत्वा क्षायोपशमिकोपयोगतुल्यताऽस्य प्रतिज्ञायते, न वा क्षायोपशमिकातुल्यतया अस्योपयोगाप्रच्युतिर्यथा भवति तथा चिन्ताव्यापार निरुत्सुकस्यापि भगवतो ध्यानमिति युक्तं, कर्मदहनसामान्यात्, कथम् ?, इह यथा पूर्वशुक्लध्यानद्वयपर्यायपरिणत आत्मा कर्म दहति
(286)
अयोगगुणस्थानं
॥५७७॥