SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [8] भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 2 निर्युक्ति: [ ९५३ / ९५३], भाष्यं [ १५९...] अध्ययनं [-] मूल [१] / [गाथा-], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2 नमस्कार व्याख्यायां ॥५७६।। |यसमये प्रथमसमयाकृष्ट। विभागपरिच्छेदानां असंख्येयेभ्यो भागेभ्यः सकाशादसंख्येयगुणहीनं भागमाकर्षयति, असंख्येयभागमाकर्षयतीत्यर्थः, जीवप्रदेशानामपि च प्रथमसमग्राकुष्टजीव प्रदेशा संख्येयभागसकाशादसंख्येयगुणभागमाकर्षयति, असंख्येय भागानाकर्षयतीत्यर्थः, एतेन विधिनाऽऽकृष्य योगजधर्म्मानुग्रहाद पूर्वस्पर्धकानि करोति, एवं समये समये मागं करोति यावत्पूर्णोऽन्तर्मुहूर्त इति, कियन्ति पुनः स्पर्द्धकानि करोतीति प्रश्ने ब्रूमहे श्रेण्या असंख्येयभागमात्राणि, श्रेणिवर्गमूलस्वाप्यसंख्येयभागमात्राणि, पूर्वस्पर्धकानामप्यसंख्येयभागमात्राणि, एवमपूर्वस्पर्द्धककरणे समाप्ते अत ऊर्ध्वमुपर्यनन्तरसमयमेव कृष्टीः कर्तुमारब्धोऽन्तर्मुहूर्तेन सर्वाः करोति । अथ किमिदं कृष्टिरिति प्रश्नेऽभिधीयते कर्मणः कर्शनं कृष्टिः, अल्पीकरणमित्यर्थः अथ कृष्टेः करणे को विधिरिति प्रश्न व्याचक्ष्महे, पूर्वस्पर्द्धकानामपूर्वस्पकानां चाधस्तात् या आदिवर्गणाः तासामविभागपरिच्छेदा ये तेषामयं योगजधर्मानुग्रहात् असंख्येयान् भागान् कर्षति, असंख्येयभागं स्थापयति, जीवप्रदेशानामप्यसंख्येयान् भागान् कर्षति, असंख्येयं भागं स्थापयति, एवमादिकृष्ट्या प्रथमसमये कृष्टीः करोति, अथ द्वितीयसमये प्रथमसमयाकृष्टानामविभागपरिच्छेदानामसंख्येयेभ्यो भागेभ्यः सकाशात्संख्येयगुणहीनं भागमाकर्षयति, असंख्येयभागमाकर्षयतीत्यर्थः, जीवप्रदेशानामपि प्रथमसमयाकृष्टजीव प्रदेशासंख्येय भागसकाशादसंख्येयगुणं भागमाकर्षयति, असंख्येयान् भागानाकर्षयतीत्यर्थः एवमनेन विधिनाऽऽकृष्याकृष्य कृष्टीः करोति एवं समये २ कृष्टयः क्रियमाणाः क्रियन्ते तावद्यावच्चरमसमयष्टिरिति तत्र प्रथमसमयाः कृष्टयः कृता असंख्येयगुणास्ततो द्वितीयसमये असंख्येयगुणहीनाः, एवं समये समये असंख्येयगुणहीनया श्रेण्या कृतास्तावद्यावदन्तर्मुहूर्त्त इति तत्र याः कृष्टयः प्रथमसमयकृतास्ता असंख्येयगुणाः कृताः द्वितीयसमयकृताभ्यः सकाशाद्, अथ याः द्वितीयसमयकृतास्ताः प्रथमसमयकृत कृष्टिप्रमाणाः कथं भवतीति प्रश्नेऽभिधीयते (285) समुद्घात ॥५७६ ॥
SR No.035054
Book TitleSachoornik Aagam Suttaani 05 Aavashyak 2 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy