SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक H दीप अनुक्रम [3] भाग - 4 "आवश्यक" मूलसूत्र-१ (निर्युक्तिः + चूर्णि:) 2 अध्ययनं [-1, निर्मुक्तिः [९५३/१५३]. भाष्यं [१११...]] मूलं [१] / [गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2 नमस्कार व्याख्यायां ॥५७५॥ तत्स्थः तमेव क्षपयतीति अयुक्तमिति चेत् न दृष्टत्वात् तद्यथा- कारपत्रिकः क्रकचेन स्तंभे छिदिक्रियां प्रारभमाणः तत्स्थस्तमेव छिनति, तथा काययोगोपष्टमात्काये गतिरोधोऽप्यवसेयः । अत्र काययोगं निरंधन पूर्वस्पर्धकानामधस्तादपूर्वस्पर्द्धकानि करोति, अथ किमिदं स्पर्द्धकमिति प्रश्ने व्याचक्ष्महे स्पर्धकमिव स्पर्द्धके, क उपमार्थः १, यथा लोके शालिफलककाणशानां समुदायात् सृष्टिर्भवति या स्पर्द्धकमिति शब्द्यते कथमिति तद्विवृण्महे 'स्पर्द्ध संहर्षे' इति शब्दाद् भवति स्पर्द्धकं संहर्षः समुदायः पिण्ड इत्यनर्थान्तरं, अथ केपां संघर्षः इति प्रश्ने व्याचक्ष्महे, इह यथा बहूनां समुदायः क्षणे (कंडकं) संभवति, बहूनां च काण्डकस्थककाणशानां समु दायात् मुष्टिरिति भवति, तथा शालिफलकण तुल्याणामसंख्येयानां लोकानां ये प्रदेशास्तत्प्रमाणप्रमितानामविभागपरिच्छेदानां भावप रमाणुसज्जितानां समुदायात् काणतुल्या वर्गणा भवति, एवमसंख्येया वर्गणा श्रेण्या असंख्येयमागप्रमाणा एकजीवे भवति, तासां च बहुकाण्डस्थकणकाणशसमुदायोत्पत्रमुष्टितुल्यानां असंख्येयानां वर्गणानां श्रेण्याः असंख्येय भागमात्राणां समुदायादेकं स्पर्द्धकं भवति, एवमसंख्येयानि स्पर्द्धकानि श्रेण्या असंख्येय भागमात्राण्येकजीवे सन्ति अथ किमिदं पूर्वपूर्वकं स्पर्द्धकानि अपूर्वस्पर्द्धकानीति च प्र ब्याचक्ष्महे यानि पर्याप्तिपर्यायेण परिणमिवात्मना पूर्वमेव योग निर्वर्तनार्थमुपात्तानि यानि चानादौ संसारे पुनः पुनर्योगनिर्वृत्यर्थं पूर्वमुपात्तान्यात्मना तानि पूर्वस्पर्द्धकानि इत्यभिधीयते तानि च स्थूलानि यान्यधुना क्रियन्ते तानि सूक्ष्माणि न च तथा लक्षणानि अनादी संसारे परिभ्रमता आत्मना कदाचिदप्युपात्तानि इत्यतोऽपूर्वस्पर्धकानि व्याख्यायन्ते, अथापूर्वस्पर्द्धककरणे को विधिरिति प्रश्नऽभिदध्महे अधस्तात्पूर्वस्पर्द्धकानामादिवर्गणा यास्तासां अविभागपरिच्छेदा ये तेषामयं योगजधर्मानुग्रहादसंख्येयान् भागानाकर्षति, असंख्येयभागं स्थापयति, जीवप्रदेशानामपि च असंख्येयभागमाकर्षयति, असंख्येयान् भागान् स्थापयति, एवं प्रथमसमये, द्विती (284) समुद्घात 1140411
SR No.035054
Book TitleSachoornik Aagam Suttaani 05 Aavashyak 2 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy