________________
आगम
(४५)
प्रत
सूत्रांक
[१७]
दीप
अनुक्रम
[82]
[भाग-३९] “अनुयोगद्वार” - चूलिकासूत्र - २ (मूलं + वृत्ति:)
मूलं [१७] / गाथा ||१...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
ऽनेनैव शरीरसमुच्छ्रयेणा सेन जिनोपदिष्टेन भावेन आवश्यकमित्येतत् पदं आगामिनि काले शिक्षिष्यते न तावच्छिक्षते तज्जीवाधिष्ठितं शरीरं भव्यशरीरद्रव्यावश्यकमिति समुदायार्थः । साम्प्रतमवयवार्थ उच्यते तत्र यः कश्चिद् 'जीवो जन्तुः योन्या- योषिद्वाच्यदेशलक्षणायाः परिपूर्णसमस्तदेहो जन्मत्वेन - जन्मसमयेन निक्रान्तो न पुनरामगर्भावस्थ एवं पतितो योनीजन्मत्वनिष्क्रान्तः, अनेनैव शरीरमेव पुद्गल सङ्घातत्वादुत्पत्तिसमयादारभ्य प्रतिसमयं समुत्सर्पणाद् वा समुच्छ्रयस्तेन आतेन-आदत्तेन वा गृहीतेन प्राकृतशैलीवशादात्मीयेन वा जिनोपदिष्टेनेत्यादि पूर्ववत् 'सेयकालि त्ति छान्दसत्वादागामिनि काले शिक्षिष्यते-अध्येष्यते सास्प्रतं तु न तावदद्यापि शिक्षते, तज्जीवाधिष्ठितं शरीरं भव्यशरीरद्रव्यावश्यकं । नोआगमत्वं चात्राप्यागमाभावमाश्रित्य मन्तव्यं तदानीं तत्र वपुष्यागमाभावात्, नोशब्दस्य चात्रापि सर्वनिषेधवचनत्वात् । अत्राSS - नम्वावश्यकस्य कारणं द्रव्यावश्यकमुच्यते, यदि त्वत्र वपुष्यागमाभावः कथं तर्हि तस्य तं प्रति कारपणत्वम्? न हि कार्याभावे वस्तुनः कारणत्वं युज्यते, अतिप्रसङ्गात्, अतः कथमस्य द्रव्यावश्यकता ?, सत्यं, किं तु भविष्यत्पर्यायस्येदानीमपि योऽस्तित्वमुपचरति नयस्तदनुवृत्त्याऽस्य द्रव्यावश्यकत्वमुच्यते, तथा च तदनुसारिणः पठन्ति - भाविनि भूतवदुपचार' इति, अत्रार्थे दृष्टान्तं दिदर्शयिषुः प्रश्नं कारयति - यथा को ऽत्र दृष्टान्त इति, निर्वचनमाह-यथाऽयं मधुकुम्भो भविष्यतीत्यादि एतदुक्तं भवति यथा मधुनि घृते वा प्रक्षे| सुमिष्टे तदाधारत्व पर्याये भविष्यत्यपि लोकेऽयं मधुकुम्भो घृतकुम्भो वेत्यादि व्यपदेशो दृश्यते, तथाऽत्रा
For P&Praise City
~ 54~
ty