SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१५५] गाथा: ||१-३|| दीप अनुक्रम [३३७ -३४२] अनुयो० मला रीया ।। २६२ ।। [भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं + वृत्ति:) मूलं [ १५५] / गाथा || १३३-१३५|| त्मदेशं लोकमध्यतया जनेभ्यः प्ररूपयति २५, यत्रार्थापत्त्याऽनिष्टमापतति तत्रार्थापत्तिदोषो, यथा गृहकुक्कुटो न हन्तव्य इत्युक्तेऽर्थापत्त्या शेषघातोऽदृष्ट इत्यापतति २६, यत्र समासविधिप्राप्तौ समासं न करोति व्यत्यॐ येन वा करोति तत्रासमासदोषः २७, उपमादोषो यत्र हीनोपमा क्रियते, यथा मेरुः सर्षपोपमः, अघिकोपमा वा क्रियते यथा सर्षपो मेरुसन्निभः, अनुपमा यथा मेरुः समुद्रोपम इत्यादि २८, रूपकदोषः खरूपभूतानामवयवानां व्यत्ययो यथा पर्वते निरूपयितव्ये शिखरादस्तदवयवान्निरूपयति, अन्यस्य वा समुद्रादेः सम्बन्धिनोऽवयवस्तत्र निरूपयतीति २९, निर्देशदोषस्तत्र यत्र निर्दिष्टपदानामेकवाक्यता न क्रियते, यथेह देवदत्तः स्थाल्यामोदनं पचतीत्यभिधातव्ये पचतिशब्दं नाभिधत्ते ३०, पदार्थदोषो यत्र वस्तुनि पर्यायोऽपि सन् पदार्थान्तरत्वेन कल्प्यते यथा सतो भावः सत्तेतिकृत्वा वस्तुपर्याय एव सत्ता, सा च वैशेषिकैः षट्सु | पदार्थेषु मध्ये पदार्थान्तरत्वेन कल्प्यते तच्चायुक्तं, वस्तूनामनन्तपर्यायत्वेन पदार्थानन्त्यप्रसङ्गादिति ३१, यत्र सन्धिमासौ तं न करोति दुष्टं वा करोति तत्र सन्धिदोषः ३२, एते द्वात्रिंशत्सूत्रदोषाः, एतैर्विरहितं यत्तल्लक्षणयुक्तं सूत्रं । अष्टाभिश्च गुणैरुपपेतं यत्तल्लक्षणयुक्तमिति वर्तते । ते चेमे गुणाः- “निद्दोसं सारवतं च, हेउजुत्तमलंकियं । उवणीयं सोवयारं च, मियं महुरमेव य ॥ १॥ तत्र निर्दोषं सर्वदोषविप्रमुक्तं १, सारवगोशब्द बहुपर्यायं २, हेतवः - अन्वयव्यतिरेकलक्षणास्तैर्युक्तम् ३, उपमोत्प्रेक्षालङ्कारैरलङ्कतम् ४, उपनयोपसंहृतमुपनीतं ५, ग्राम्यभणितिरहितं सोपचारं ६, वर्णादिनियतपरिमाणं मितं ७, श्रवणमनोहरं मधुरम् ८ । अन्यैश्च कैश्चिदू षड् वृति: उपक्रमे अनुगमे० ~535~ ॥ २६२ ॥ For Tate & Personal Use City पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[४५] चूलिकासूत्र [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि - रचिता वृत्तिः
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy