SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ आगम (४५) [भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः ) ....... मूलं [१५५] / गाथा ||१३३-१३५|| ........ प्रत सूत्रांक [१५५] गाथा: ||१-३|| पुनर्वचनं यथा पीनो देवदत्तो दिवा न भुङ्क्ते इत्युक्ते अर्थादापन्नं रात्रौ भुङ्ग इति, तत्रार्थापनमपि य एतमात्साक्षाद् यात्तस्य पुनरुक्तता १०, व्याहतं यत्र पूर्वेण परं विहन्यते यथा-'कर्म चास्ति फलं चास्ति. कर्ता न त्वस्ति कर्मणा'मित्यादि ११, अयुक्तमनुपपत्तिक्षम यथा-तेषां कटतटभ्रष्टैगजानां मदबिन्दुभिरित्यादि १२,12 क्रमभिन्नं यत्र क्रमो नाराध्यते यथा-स्पर्श नरसनघ्राणचक्षुश्रोत्राणामर्थाः स्पर्शरसगन्धरूपशब्दा इति वक्तव्ये स्पर्शरूपशब्दगन्धरसा इति ब्रूयात् इत्यादि १३, वचनभिन्नं यत्र वचनव्यत्ययो यथा वृक्षाः ऋती पुष्पितः त्यादि १४, विभक्तिभिन्नं यत्र विभक्तिव्यत्ययो यथा वृक्षं पश्य इति वक्तव्ये वृक्षः पश्य इति ब्रूयादित्यादि| १५, लिङ्गभिन्नं यत्रलिङ्गव्यत्ययो यथा अयं स्त्रीत्यादि १६, अनभिहितं-स्खसिद्धान्तानुपदिष्टं यथा सप्तमः पदार्थों वैशेषिकस्य,प्रकृतिपुरुषाध्यधिक सालयस्य, दुःखसमुदायमार्गनिरोधलक्षणचतरार्यसत्यातिरिक्तं वा बौद्धस्येत्यादि| १७, यत्रान्यच्छन्दोऽधिकारेऽन्यच्छन्दोऽभिधानं तदपदं, यथाऽऽयोपदेऽभिधातव्ये वैतालीयपदमभिध्यादित्यादि १८, यन्त्र वस्तुखभावोऽन्यथास्थितोऽन्यथाऽभिधीयते तत्स्वभावहीनं, यथा शीतो बहिः मूर्तिमदाका शमित्यादि १०, यत्र प्रकृतं मुक्त्वाऽप्रकृतं व्यासतोऽभिधाय पुनः प्रकृतमुच्यते तद्व्यवहितं २०, कालदोषो ४ यत्रातीतादिकालव्यत्ययो यथा रामो वनं प्रविवेशेति वक्तव्ये रामो वनं प्रविशतीत्याह २१, यतिदोषोऽस्थानविरतिः सर्वथाऽविरतिर्वा २२, छविरलङ्कारविशेषस्तेन शून्यं छविदोषः २३, समयविरुद्ध खसिद्धान्तविरुद्धं 8 यथा सायस्यासत् कारणे कार्य, वैशेषिकस्य वा सदिति २४, वचनमात्र निर्हेतुकं, यथा कश्चिद्यथेच्छया कञ्चि दीप अनुक्रम [३३७-३४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: ~534~
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy