________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः )
......... मूलं [१५५] / गाथा ||१३३-१३५|| ........
प्रत
सूत्रांक
[१५५]
गाथा: ||१-३||
गुणाः सूत्रस्य पश्यन्ते, तद्यथा-"अप्पक्खरमसंदिदं, सारवं विस्सओमुहं । अस्थोभमणवजं च, सुत्तं सव्वण्णुभासियं ॥१॥ यत्राल्पाक्षरं-मिताक्षरं यथा सामायिकसूत्रम्, असन्दिग्धं-सैन्धवशब्दवद्यल्लवणवसनतुरगाद्यनेकार्थसंशयकारि न भवति, सारवत्त्वं च पूर्ववत्, विश्वतोमुखं प्रतिसूत्रं चरणानुयोगाद्यनुयोगचतुष्टयव्याख्याक्षम, यथा-'धम्मो मंगलमुकिमित्यादिश्लोके चत्वारोऽप्यनुयोगा व्याख्यायन्ते, अथवा अनन्तार्थत्वाद् यतो विश्वतोमुखं ततः सारवदित्येवं सारवत्त्वस्यैव हेतुभावेनेदं योज्यते, अस्मिंश्च व्याख्याने पञ्चैवैते गुणा भवन्ति, स्तोभका:-चकारवाशब्दादयो निपातास्तैर्वियुक्तमस्तोभकम्, अनवयं कामादिपापच्यापाराप्ररूपकं, एवंभूतं सूत्रं सर्वज्ञभाषितमिति । यैस्तु पूर्वे अष्ट सूत्रगुणाः प्रोक्तास्तेऽनन्तरश्लोकोक्तगुणास्तेज्वेवाष्टसु गुणेष्वन्तर्भावयन्ति, ये त्वनन्तरश्लोकोक्तानेव सूत्रगुणानिच्छन्ति ते अमीभिरेव पूर्वोक्तानामष्टानामपि सङ्ग्रहं प्रतिपादयन्ति । एवं सूत्रानुगमे समस्तदोषविप्रमुक्ते लक्षणयुक्ते सूत्रे उचारिते ततो ज्ञास्यते यदु-पाल तैतत्वसमयगतजीवाद्यर्थप्रतिपादकं पदं खसमयपदं, परसमयगतप्रधानेश्वराद्यर्थप्रतिपादकं पदं परसमयपदं, अनयोरेव मध्ये परसमयपदं देहिनां कुवासनाहेतुखाइन्धपदमितरतु सद्बोधकारणत्वान्मोक्षपदमिति तावदेके,
अन्ये तु व्याचक्षते-प्रकृतिस्थित्यनुभावप्रदेशलक्षणभेदभिन्नस्य बन्धस्य प्रतिपादकं पदं बन्धपदम् , सद्बोधकारकोणत्वात् कृत्लकर्मक्षयलक्षणस्य मोक्षस्य प्रतिपादकं पदं मोक्षपदमिति । आह-नन्वत्र व्याख्याने वन्धमोक्षप्रतिपा
दकं पदद्वयं खसमयपदानातिरिच्यते तत्किमिति भेदेनोपन्यासः?, सत्यं, किन्तु स्वसमयपदस्थाप्यभिधेयवै
दीप अनुक्रम [३३७-३४२]
355
Pra nabraryang
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~536~