SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१५१] दीप अनुक्रम [३१८] [भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः) मूलं [ १५१] / गाथा || १२२... || ॥ १ ॥ इत्याद्यन्यदप्यभ्युधम् । अहेतुत्वं च परसमयस्य हेत्वाभासवलेन प्रवृत्तेः, यथा नास्त्येवात्मा अत्यन्तानुपलब्धेः हेत्वाभासचार्य, ज्ञानादेस्तद्गुणस्योपलब्धेः उक्तं च- “नाणाईण गुणाणं अणुभवओ होइ जंतुणो सत्ता । जह रुवाइगुणाणं उवलंभाओ घडाईण ॥ १ ॥ मित्यादि प्रागेवोक्तमिति, असद्भावत्वं चैकान्तक्षणभङ्गासद्भूतार्थाभिधायकत्वाद्, एकान्तक्षणभङ्गादेशासद्भूतत्वं युक्तिविरोधात्, तथाहि - “धम्माघम्मुवएसो कयाकर्यं परभवाइगमणं च । सब्वावि हु लोपठिई न घड एतखिणयम्मी ॥ १ ॥ "त्यादि, अक्रियात्वं चैकान्तशून्यताप्रतिपादनात् सर्वशून्यतायां च क्रियावतोऽभावेन क्रियाया असम्भवादू, उक्तं च - "सव्यं सुनंति जयं पडिवनं जेहि तेऽवि वक्तव्या । सुन्नाभिहाण किरिया कचुरभावेण कह घडई ॥ १ ॥ - त्यादि, उन्मार्गत्वं परस्परविरोधस्थाण्वाद्याकुलत्वात्, तथाहि - "न हिंस्यात् सर्वभूतानि, स्थावराणि चराणि च। आत्मवत्सर्वभूतानि यः पश्यति स धार्मिकः ॥ १ ॥ इत्याद्यभिधाय पुनरपि "पटू सहस्राणि युज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनाश्यूनानि पशुभिस्त्रिभिः ॥ १ ॥" इत्यादि प्रतिपादयन्तीति, अनुप|देशित्वं चैकान्तक्षणभङ्गादिवादिनामहितेऽपि प्रवर्तकत्वात्, तदुक्तम् - "सर्व क्षणिकमित्येतद्, ज्ञात्वा को न प्रवर्तते । विषयादौ विपाको मे, न भावीति विनिश्चयाद् ॥ १ ॥" इत्यादि, यतश्चैवं ततो मिथ्यादर्शनं, ततयथा रूपादिगुणानामुपलम्भाद् घटादीनाम् ॥ २ ॥ २ धर्माधर्मोपदेशः कृताकृतं परभपगमनादिकं च ३ सर्व शून्यं जगदिति प्रतिपत्रं यैस्तेऽपि वक्तव्याः । शून्याभिधानकिया कर्तुरभावे कथं घटते ! ॥ १ ॥ १] ज्ञानादीनां गुणानामनुभवाज्जन्तोः सत्ता सर्वोऽपि लोकस्थितिर्न पटत एकान्तक्षणिके ॥ १ ॥ For Pane&Personal Use Oily पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[४५] चूलिकासूत्र [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि - रचिता वृत्तिः ~500~
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy