________________
आगम
(४५)
प्रत
सूत्रांक
[१५१]
दीप
अनुक्रम
[३१८]
अनुयो०
मलधारीया
॥ २४४ ॥
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः) मूलं [ १५१] / गाथा || १२२... ||
यदा साङ्ख्यादयः प्रतिपादयन्ति तदेवं (पं) परसमयवक्तव्यता, यदा तु जैनास्तदा खसमयवक्तव्यता, ततञ्चासी स्वसमय पर समयवक्तव्यतोच्यते । अथ वक्तव्यतामेव नयैर्विचारयन्नाह — 'इआणि को नओ इत्यादि, अत्र नैगमव्यवहारौ त्रिविधामपि वक्तव्यतामिच्छतः, नैगमस्यानेकगमत्वाद्व्यवहार [पर]स्य तु लोकव्यवहारपरत्वात्, लोके व सर्वप्रकाराणां रूढत्वादिति भावः, ऋजुसूत्रस्तु विशुद्धतरत्वादायामेव द्विविधां वक्तव्यतामिच्छति, स्वपरसमयवक्तव्यतानभ्युपगमे युक्तिमाह- 'तत्थ णं जा सा इत्यादि, तृतीयवक्तव्यताभेदे याऽसौ खसमयवक्तव्यता गीयते सा खसमयं प्रविष्टा, कोऽर्थः ? - प्रथमे वक्तव्यताभेदे अन्तर्भूता इत्यर्थः, या तु परसमयवक्तव्यता सा परसमयं प्रविष्टा, द्वितीये वक्तव्यताभेदे अन्तर्भाविता इत्यर्थः, ततश्चोभयरूपवक्तव्यतायाः प्रस्तुतनयमतेऽसत्त्वात् द्विविधैव वक्तव्यता न त्रिविधेति भावः । सङ्ग्रहस्तु सामान्यवादिनैगमान्तर्गतत्वेन विवक्षितत्वात् सूत्रगतिवैचित्र्याद्वा न पृथगुक्त इति । त्रयः शब्दनयाः - शब्दसमभिरूढैवंभूताः शुद्धतमत्वादेकां स्वसमवक्तव्यतामिच्छन्ति, नास्ति परसमयवक्तव्यता इति मन्यन्ते, कस्मादित्याह यस्मात् परसमयोऽनर्थः, इत्यादि, इत्थं चेह योजना कार्या नास्ति परसमयवक्तव्यता, परसमयस्यानर्थत्वादित्यादि, अनर्थत्वं परसमयस्य नास्त्येवात्मेत्यनर्थप्रतिपादकत्वाद्, आत्मनो नास्तित्वस्य चानर्थत्वमात्माभावे तत्प्रतिषेधानुपपत्तेः उक्तं च - "जो चिंतेइ सरीरे नत्थि अहं स एव होइ जीवोत्ति। न हु जीवंमि असंते संसयउपायओ अण्णो १ यश्चिन्तयति शरीरे नास्म्यहं स एव भवति जीव इति। नैव जीवेऽसति संशयोत्पादकोऽन्यः ॥ १
वृत्तिः उपक्रमे वक्तव्य०
~499~
॥ २४४
For te&Personal Use Oily
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः