________________
आगम
(४५)
प्रत
सूत्रांक [१५० ]
गाथा:
II--II
दीप अनुक्रम [३११
-३१७]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं + वृत्ति:) मूलं [ १५० ] / गाथा ||११९-१२२||
पाहुडसंखा पाहुडिआसंखा पाहुडपाहुडिआसंखा वत्थुसंखा, से तं दिट्टिवायसुअपरिमाणसंखा । से तं परिमाणसंखा । से किं तं जाणणासंखा ?, २ जो जं जाणइ तंजहा -सदं सद्दिओ गणियं गणिओ निमित्तं नेमित्तिओ कालं कालणाणी वेज्जयं वेज्जो, से तं जाणणासंखा ।
संख्यायते अनयेति सङ्ख्या, परिमाणं पर्यवादि तद्रूपा सङ्ख्या परिमाणसङ्ख्या, साध कालिकतदृष्टिवादविषयत्वेन द्विविधा, तत्र कालिकश्रुतपरिमाणसङ्ख्यायां पर्यवसङ्ख्या इत्यादि, पर्यवादिरूपेण परिमाणविशेषेण कालिकश्रुतं संख्यायत इति भावः, तत्र पर्यवाः पर्याया धर्मा इतियावत् तद्रूपा सङ्ख्या पर्यवसङ्ख्या सा च कालिकश्रुते अनन्तपर्यायात्मिका द्रष्टव्या, एकैकस्याप्यकाराद्यक्षरस्य तदभिधेयस्य च जीवादिवस्तुनः प्रत्येकमनन्तपर्यायत्वात् एवमन्यत्रापि भावना कार्या, नवरं सङ्ख्येयान्यकारायक्षराणि, याद्यक्षरसंयोगरूपाः सङ्ख्याः सङ्घाताः, सुप्तिङन्तानि समयप्रसिद्धानि वा सङ्ख्येयानि पदानि, गाधादिचतुर्थांशरूपाः सङ्ख्येयाः पादाः सङ्ख्येया गाथाः, सङ्ख्येयाच श्लोकाः प्रतीताः, एवं छन्दोविशेषरूपाः सङ्ख्येया वेष्टकाः, निक्षेपनिर्युत्युपोद्घातनिर्युक्तिसूत्रस्पर्शकनिर्युक्तिलक्षणा त्रिविधा निर्युक्तिः, व्याख्योपायभूतानि सत्पदप्ररूपणतादीन्युपक्रमादीनि वा सङ्ख्येयान्यनुयोगद्वाराणि, सोया उद्देशाः सङ्ख्येयान्यध्ययनानि सङ्ख्येयाः श्रुतस्कन्धाः,
For hate & Personal Use Oily
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [४५], चूलिकासूत्र [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि - रचिता वृत्तिः
अत्र मुद्रणदोषात् सूत्रक्रमांक १४९ स्थाने सूत्रक्रमांक १५०' इति मुद्रितं
~478~