SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१४८] दीप अनुक्रम [३१०] [भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः) मूलं [१४८] / गाथा ||११८...|| Education i नम् । एवं वदन्तं समभिरूढं साम्प्रतमेवंभूतो भणति यद्यद्धर्मास्तिकायादिकं वस्तु भणसि तत्तत्सर्वं समस्तं कृत्स्नं देशप्रदेशकल्पनारहितं प्रतिपूर्णमात्मस्वरूपेणाविकलं निरवशेषं तदेवैकत्वान्निरवयवमेक ग्रहणगृहीतमेकाभिधानाभिधेयं न नानाभिधानाभिधेयं, तानि ह्येकस्मिन्नर्थेऽसौ नेच्छति, अभिधानभेदे वस्तुभेदाभ्युपगमात्, तदेवंभूतं तद्धर्मास्तिकायादिकं वस्तु भण, न तु प्रदेशादिरूपतया, यतो देशप्रदेशौ ममावस्तुभूतौ, अखण्डस्यैव वस्तुनः सत्वेनोपयोगात्, तथाहि प्रदेशप्रदेशिनोर्भेदो वा स्यादभेदो वा ?, यदि प्रथमः पक्षस्तर्हि भेदेनोपलब्धिप्रसङ्गो, न च तथोपलब्धिरस्ति, अथाभेदस्तर्हि धर्मप्रदेशशब्दयोः पर्यायतैव प्राप्ता, एकार्थविषयत्वात्, न च पर्यायशब्दयोर्युगपदुच्चारणं युज्यते, एकेनैव तदर्थप्रतिपादने द्वितीयस्य वैयर्थ्यात् तस्मादेकाभिधानाभिधेयं परिपूर्णमेकमेव वस्त्विति । तदेवमेते निजनिजार्थसत्यताप्रतिपादनपरा विप्रतिपद्यन्ते नयाः एते च परस्परं निरपेक्षा दुर्नया:, सौगतादिसमयवत्, परस्परसापेक्षास्तु सुनयाः, तेच परस्परसापेक्षैः समुदितैरेव सम्पूर्ण जिनमतं भवति, नैकैकावस्थायाम्, उक्तं च स्तुतिकारण - “उदधाविव सर्वसिन्धवः, समुदीर्णास्त्वयि | नाथ ! दृष्टयः । न च तासु भवान् प्रदृश्यते, प्रविभक्तासु सरित्स्विवोदधिः ॥ १ ॥” । एते च नया ज्ञानरूपास्ततो जीवगुणत्वेन यद्यपि गुणप्रमाणेऽन्तर्भवन्ति तथापि प्रत्यक्षादिप्रमाणेभ्यो नयरूपतामात्रेण पृथक प्रसि द्धत्वाइहुविचारविषयत्वाज्जिनागमे प्रतिस्थानमुपयोगित्वाच्च जीवगुणप्रमाणात्पृथगुक्ताः । तदेतत्प्रदेशदृष्टान्तेनेति निगमनम् । प्रस्थकादिदृष्टान्तत्रयेण च नयप्रमाणं प्रतिपाद्योपसंहरति-तदेतन्नयप्रमाणमिति । अनेन च For ane & Personal Use City पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[४५] चूलिकासूत्र [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि - रचिता वृत्तिः ~470~
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy