________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः )
............... मूलं [१४८] / गाथा ||११८...|| .............
प्रत
सूत्रांक
[१४८]
अनुयो. दित्याह-इह खलु द्वौ समासौ भवतः, तद्यथा-तत्पुरुषः कर्मधारयश्च, इदमुक्तं भवति-'धम्मे परसे से प-KI वृत्तिः मलधा- एसे धम्म' इत्युक्ते समासद्यारम्भकवाक्यद्वयमत्र संभाव्यते, तथाहि-यदि धर्मशब्दात् सप्तमीयं तदा सप्त- उपक्रम रीया मीतत्पुरुषस्यारम्भकमिदं वाक्यं, यथा बने हस्तीत्यादि, अथ प्रथमा तदा कर्मधारयस्य, यथा नीलमुत्पलमि- प्रमाणद्वारं
दत्यादि, ननु यदि वाक्यद्वयमेवात्र संभाव्यते तर्हि कथं द्वौ समासौ भवत इत्युक्तम् ?, उच्यते, समासार॥२२९॥
म्भकवाक्ययोः समासोपचारादू, अथवा अलुक्समासविवक्षया समासावप्येती भवतो, यथा कण्ठेकाल इत्यादीत्यदोषः, यदि नाम द्वौ समासावत्र भवतस्ततः किमित्याह-तन्न ज्ञायते कतरेण समासेन भणसि?, किं| तत्पुरुषेण कर्मधारयेण चा?, यदि तत्पुरुषेण भणसि, तन्मैवं भण, दोषसम्भवादिति शेषः, स चायं दोषो-धर्मे प्रदेश इति भेदापत्तिः, यथा कुण्डे बदराणीति, न च प्रदेशदेशिनौ भेदेनोपलभ्येते, अथ अभेदेऽपि सप्तमी दृश्यते यथा घटे रूपमित्यादि, यद्येवमुभयत्र दर्शनात् संशयलक्षणो दोषः स्यात् , अथ कर्मधारयेण भणसि, ततो विशेषेण भण 'धम्मे असे पएसे य से'त्ति, धर्मश्च स प्रदेशश्च स इति समानाधिकरणः कर्मधारयः, एवं च सप्सम्याशङ्काभावतो न तत्पुरुषसम्भव इति भावः । आह-नन्वयं प्रदेशः समस्तादपि धर्मास्तिकायादव्यतिरिक्तः सन् समानाधिकरणतया निर्दिश्यते ? उत तदेकदेशवृत्तिः सन् ? यथा जीवास्तिकायैकदेशवृत्तिर्जीवप्रदेश इत्याशक्याह-'से पएसे धम्म'त्ति स च प्रदेशः सकलधोस्तिकायादव्यतिरिक्तो न पुन-॥२२९॥ स्तदेकदेशवृत्तिरित्यर्थः, शेषभावना पूर्ववत्, 'से पएसे नोजीचे से पएसे नोखंधे इत्यत्रापि पूर्ववदेवार्थकथ
दीप अनुक्रम [३१०]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~469~