SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ आगम (४५) [भाग-३९] "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः ) ............... मूलं [१४८] / गाथा ||११८...|| ................ - -- - - प्रत -- - सूत्रांक [१४८] |निवारितत्वादू, यथा एकोऽपि देवदत्तः कदाचिद्राज्ञो भृत्यः कदाचिदमायादेरिति, एवमाकाशास्तिकायादिप्रदेशेऽपि वाच्यं, तदेवं नैयत्याभावात्तवाप्यनवस्था प्रसज्येतेति, तन्मैवं भण-भाज्य: प्रदेशः, अपि तु इत्थं भण-'धम्मे पएसे [ से पएसे धम्मे ] इत्यादि, इदमुक्तं भवति-धर्मः प्रदेश इति-धर्मात्मकः प्रदेश इत्यर्थः, अत्राह-नन्वर्य प्रदेश: सकलधर्मास्तिकायादव्यतिरिक्तः सन् धर्मात्मक इत्युच्यते आहोवित्तदेकदेशाव्य|तिरिक्तः सन् यथा सकलजीवास्तिकायैकदेशैकजीवद्रव्याव्यतिरिक्तः सँस्तत्प्रदेशो जीवात्मक इति व्यपदिश्यत इत्याह-'से पएसे धम्मति स प्रदेशो धर्म:-सकलधर्मास्तिकायाव्यतिरिक्त इत्यर्थः, जीवास्तिकाये हि परस्परं भिन्नान्येवानन्तानि जीवद्रव्याणि भवन्ति, अतो य एकजीवद्रव्यस्य प्रदेशः स निःशेषजीवास्तिकायैकदेशवृत्तिरेव सन् जीवात्मक इत्युच्यते, अत्र तु धर्मास्तिकाय एकमेव द्रव्यं ततः सकलधर्मास्तिकायाव्यतिरिक्त एव सँस्तत्प्रदेशो धर्मात्मक उच्यत इति भावः । अधर्माकाशास्तिकाययोरप्येकैकद्रव्यत्वादेवमेव भावनीयं । जीवास्तिकाये तु 'जीवे पएसे से पएसे नोजी त्ति, जीवः प्रदेश इति-जीवास्तिकायात्मकः प्र-- देश इत्यर्थः, स च प्रदेशो नोजीयः, नोशब्दस्यह देशवचनत्वात् सकलजीवास्तिकायैकदेशवृत्तिरित्यर्थः, यो| कजीवद्रव्यात्मकः प्रदेशः स कथमनन्तजीवद्रव्यात्मके समस्तजीवास्तिकाये वर्तेत इति भावः, एवं स्कन्धात्मकः प्रदेशो नोस्कन्धा, स्कन्धद्रव्याणामनन्तत्वादेकदेशवर्तिरित्यर्थः । एवं वदन्तं शब्दनयं नानाधेसमभिरोहणात् समभिरूढः स पाह-पगणसि-धर्मः प्रदेशः स प्रदेशो धर्म इत्यादि, तन्न भवति-न युज्यते, कस्मा दीप अनुक्रम [३१०] अनु. ३९ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: ~468~
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy