SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ आगम (४५) [भाग-३९] “अनुयोगद्वार”– चूलिकासूत्र-२ (मूलं+वृत्तिः ) .................. मूलं [१४] / गाथा ||१...|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१४] योऽनुपयुक्तास्तावन्त्येव तान्यतीतादिकालत्रयवर्तीनि नैगमस्यागमतो द्रव्यावश्यकानि, एतदुक्तं भवति-नैगमो हि सामान्यरूपं विशेषरूपं च वस्त्वभ्युपगच्छत्येव, न पुनर्वेक्ष्यमाणसंग्रहवत्सामान्यरूपमेव, ततो विशेषवादिस्वादस्पेह प्राधान्येन विवक्षितत्वाद्यावन्तः केचन देवदत्तादिविशेषा अनुपयुक्तास्तावन्ति सर्वाण्यप्यस्य द्रव्यावश्यकानि, न पुनः संग्रहवत्सामान्यवादित्वादेकमेवेतिभावः । एवमेव 'ववहारस्सवित्ति व्यवहरणं व्यवहारो लौकिकमवृत्तिरूपस्तत्प्रधानो नयोऽपि व्यवहारः, तस्यापि 'एवमेव' नैगमवदेको देवदत्तादि-1 रनुपयुक्त आगमत एक द्रव्यावश्यकमित्यादि सर्व वाच्यम्, इदमुक्तं भवति-व्यवहारनयो लोकव्यवहारोप8|कारिण एव पदाथोंनभ्युपगच्छति, न शेषान, लोकव्यवहारे च जलाहरणनणपिण्डीप्रदानादिके घटनिम्बा-18 दिविशेषा एवोपकुर्वाणा दृश्यन्ते न पुनस्तदतिरिक्तं तत्सामान्यमिति विशेषानेव वस्तुत्वेन प्रतिपातेऽसौ न सामान्यं, व्यवहारानुपकारित्वाद्विशेषव्यतिरेकेणानुपलश्यमानत्वाचेति, अतो विशेषवादिनैगममतसाम्ये नातिदिष्टः । अत्र चातिदेशेनैवेष्टार्थसिद्धेग्रन्थलाघवार्थ संग्रहमतिक्रम्य व्यवहारोपन्यासः कृत इति भावनीदयम् । 'संगहस्सेत्यादि सर्वमपि भुवनब्रयान्तर्वर्ति वस्तुनिकुरुम्बं संगृह्णाति-सामान्यरूपतयाऽध्यवस्यतीति। संग्रहस्तस्य मते एको वा अनेके वा अनुपयुक्तोऽनुपयुक्ता वा यदागमतो द्रव्यावश्यकं द्रव्यावश्यकानि वा तत्किमित्याह-से एगे'त्ति तदेकं द्रव्यावश्यकम्, इदमत्र हृदयम्-संग्रहनयः सामान्यमेवाभ्युपगच्छति न लाविशेषान, अभिदधाति च-सामान्याविशेषा व्यतिरिक्ताः स्युः अव्यतिरिक्ता वा स्युः, ययायः पक्षस्तर्हि दीप अनुक्रम CALCCCCCCESS ~46~
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy