SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ आगम (४५) [भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:) ......... मूलं [१४६-१४७] / गाथा ||११५-११८|| .......... पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१४६-१४७]] गाथा: ||--|| | उपमीयते-सहशतया वस्तु गृयते अनयेत्युपमा सैवीपम्यं, तच द्विविधं-साधम्र्येणोपनीतम्-उपनयो यन्त्र तत्साधम्र्योपनीतं, वैधम्र्पणोपनीतम्-उपनयो यत्र तद्वैधम्योपनीतं, तत्र साधम्र्योपनीतं त्रिविधं-किश्चित्साधा-13 दिभेदात्, किञ्चित्साधर्म्य च मन्दरसर्षपादीनां, तत्र मन्दरसर्षपयोर्द्वयोरपि मूर्तवं सादृश्य, समुद्रगोष्पदयोः सोदकत्वमात्रम् , आदित्यखद्योतयोराकाशगमनोयोतकत्वरूपं, चन्द्रकुमुदयोः शुक्लत्वमिति । 'से किं तं पायसाहम्मे' इत्यादि, खुरककुदविषाणलाङ्गलादेर्द्वयोरपि समानत्वात् , नवरं सकम्बलो गीर्वृत्तकण्ठस्तु गवय इति प्रापःसाधर्म्यता। सर्वसाधर्म्य तु क्षेत्रकालादिभिर्भेदान्न कस्यापि केनचित्साई संभवति, सम्भवे त्वेकताप्रसङ्ग, तर्जुपमानस्य तृतीयभेदोपन्यासोऽनर्थक एवेत्याशक्याह-तथापि तस्य-विवक्षितस्याहंदादेस्तेनैव-अहंदादिना औपम्यं क्रियते, तद्यथा-'अर्हता अर्हत्सदृशं कृतं तत्किमपि सर्वोत्तमं तीर्थप्रवर्तनादि कार्यमर्हता कृतं यदहै। हन्नेव करोति नापरः कश्चिदिति भावः, एवं च स एव तेनोपमीयते, लोकेऽपि हि केनचिदत्यद्भुते कार्य कृते वक्तारो दृश्यन्ते-तत्किमपीदं भवद्भिः कृतं यद्भवन्त एव कुर्वन्ति नान्यः कश्चिदिति, एवं चक्रवर्तिवासुदेवा|दिष्वपि वाच्यम् । 'से किं तं वेहम्मोवणीए' इत्यादि, यथेति-यादृशः शवलाया गोरपत्यं शाबलेयो न तादृशो बहुलाया अपत्यं बाहुलेयो, यथा चायं न तथेतरः, अत्र च शेषधमैस्तुल्यत्वाद्भिन्ननिमित्तजन्मादिमा-1 व्रतस्तु वैलक्षण्यात् किञ्चिद्वैधयं भावनीयम् । 'से किं तं पायवेहम्में इत्यादि, अन बायसपायसयोः सचे-| तनखाचेतनत्वादिभिर्बहुभिधर्मर्षिसंवादात अभिधानगतवर्णद्वयेन सत्त्वादिमात्रतश्च साम्यात्प्रायोवैधर्म्यता दीप अनुक्रम -३०९] ~446~
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy