________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार”– चूलिकासूत्र-२ (मूलं+वृत्तिः )
.................. मूलं [१३] / गाथा ||१...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
मलधा
वृत्तिः अनुयो. अधिक
प्रत सूत्रांक [१३]
दीप अनुक्रम [१४]
अनुयो० क्षितमुच्यते, तदेवाविस्मरणतश्चेतसि स्थित-स्थितत्वात् स्थितमप्रच्युतमित्यर्थः, परावर्त्तनं कुर्वतः परेण वा
दिकचित् पृष्ठस्य यच्छीघमागच्छति तजितं, विज्ञातश्लोकपदवर्णादिसंख्यं मितं, परि-समन्तात्सर्वप्रकारैर्जितं रीया
परिजितं-परावर्तनं कुर्वतो यत्क्रमेणोत्क्रमेण वा समागच्छतीत्यर्थः, नाम-अभिधानं तेन समं नामसमम् ,
इदमुक्तं भवति-यथा स्वनाम कस्यचिच्छिक्षितं जितं मितं परिजितं भवति तथैतदपीत्यर्थः, घोषा-उदात्ता॥१५॥
|दयः तैर्वाचनाचार्याभिहितघोषैः समं घोषसम, यथा गुरुणा अभिहिता घोषास्तथा शिष्योऽपि यत्र शिक्षते तत् घोषसममिति भावः, एकट्यादिभिरक्षरहीनं हीनाक्षरं न तथा अहीनाक्षरम् , एकादिभिरक्षरैरधिकमत्यक्षरं न तथा अनत्यक्षरम, 'अब्वाइद्धक्खर ति विपर्यस्तरतमालागतरत्नानीव व्याविद्धानि-विपर्यस्तान्यक्षराणि यत्र तयाविद्धाक्षरं न तथाऽच्याविद्धाक्षरं, 'अब्वाइद्ध'मिति कचित्पाठः, तत्रापि व्याविद्धाक्षरयोगाद्व्याविद्धं न है। तथाऽव्याविद्धम्, उपलशकलाद्याकुलभूभागे लालमिव स्खलति यत्तत् स्खलितं न तथाऽस्खलितम्, अनेकशास्त्रसम्बन्धीनि सूत्राण्येकत्र मीलयित्वा यत्र पठति तत् मिलितमसदृशधान्यमेलकवत्, अथवा परावर्त्तमानस्य यत्र पदादिविच्छेदोन प्रतीयते तन्मीलितं न तथाऽमीलितम्, एकस्मिन्नेव शास्त्रेऽन्यान्यस्थाननिवहान्येकार्थानि सूत्राण्येकत्र स्थाने समानीय पठतो व्यत्यानेडितम्, अथवा आचारादिसूत्रमध्ये खमतिचर्चितानि तत्सदृशानि सूत्राणि कृत्वा प्रक्षिपतो व्यत्यानेडितम्, अस्थानविरतिकं वा व्यत्यानेडितं न तथाऽ-18 व्यत्यानेडितं, सूत्रतो बिन्दुमात्रादिभिरनूनमर्थतस्त्वध्याहाराकासादिरहितं प्रतिपूर्णम् , उदात्तादिघोषैरविकलं
M
॥१५॥
~ 41~