________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार”– चूलिकासूत्र-२ (मूलं+वृत्तिः )
.................. मूलं [१३] / गाथा ||१...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[१३]
प्रतिपूर्णघोषम् । अत्राह-घोषसममित्युक्तमेव तत्क इह विशेष इति, उच्यते, घोषसममिति शिक्षाकालमधिकृत्योक्तं, प्रतिपूर्णघोषं तु परावर्तनादिकालमधिकृत्येति विशेषः, कण्ठोष्ठश्च कण्ठोष्ठमिति प्राण्यङ्गवात्समाहारस्तेन विप्रमुक्तं कण्ठोष्ठविप्रमुक्तं, बालमूकभाषितवद्यव्यक्तं न भवतीत्यर्थः, गुरुप्रदत्तया वाचनया उपगतं-प्राप्तं गुरुवाचनोपगतं न तु कर्णाघाटकेन शिक्षितं, न वा पुस्तकात् स्वयमेवाधीतमिति भावा, तदेवं यस्य जन्तोरावश्यकशास्त्रं शिक्षितादिगुणोपेतं भवति स जन्तुम्तबावश्यकशास्त्रे वाचनया-शिष्या-13 ध्यापनलक्षणया प्रच्छभया-तद्गतार्थादेर्गुरुं प्रति प्रश्नलक्षणया परावर्तनया पुनः पुनः सूत्रार्थाभ्यासलक्षणया धर्मकथया-अहिंसादिधर्मप्ररूपणखरूपया वर्तमानोऽपि, अनुपयुक्तवादिति साध्याहारम् , आगमतो द्रव्यावश्यकमित्यनेन सम्बन्धः । ननु यथा वाचनादिभिस्तत्र वर्तमानोऽपि द्रव्यावश्यकं भवति तथाऽनुप्रेक्षयाऽपि तत्र वर्तमानस्तद्भवति?, नेत्याह-'नो अणुप्पेहात्ति अनुप्रेक्षया ग्रन्थार्थानुचिन्तनरूपया, तत्र वर्तमानो न द्रव्यावश्यकमित्यर्थः, अनुप्रेक्षाया उपयोगमन्तरेणाभावादू, उपयुक्तस्य च द्रव्यावश्यकत्वायोगादिति
भावः । अत्राह परम्-'कम्हत्ति, ननु कस्मादाचनादिभिस्तत्र वर्तमानोऽपि द्रव्यावश्यकं ? कस्माचानुप्रेक्षया दतन वर्तमानो न तथेति प्रच्छकाभिप्रायः, एवं पृष्टे सत्याह-'अणुवओगो दम्वमितिकट्ठत्ति' अनुपयोगोद
द्रव्यमितिकृत्वा, उपयोजनमुपयोगो-जीवस्य बोधरूपो व्यापारः, सह विवक्षितार्थे चित्तस्य विनिवेशखरूपो गुह्यते, न विद्यतेऽसौ यत्र सोऽनुपयोगः-पदार्थः, स विवक्षितोपयोगस्य कारणमात्रत्वात् द्रव्यमेव भवति
दीप अनुक्रम [१४]
SCX
~ 42~