________________
आगम
(४५)
प्रत
सूत्रांक
[१४५]
दीप
अनुक्रम
[२९९]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः)
मूलं [ १४५] / गाथा ||११४...||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनु. ३४
शास्त्रान्तरे जघन्यतः समयं उत्कृष्टतस्तु षण्मासान्यावदभिहितम्, अत उक्तं बद्धानि कदाचित् सन्ति केदाचिन्न सन्ति, यदि भवन्ति तदा जघन्यत एकं द्वे त्रीणि वा, उत्कृष्टतस्तु सहस्रपृथक्त्वं द्विप्रभृत्या नवभ्यः | समयप्रसिद्ध्या पृथक्त्वमुच्यते, मुक्तानि यथौदारिकाणि तथैव, नवरमनन्तकस्यानन्तभेदात्तदेवेह लघुतरं द्र|ष्टव्यम् ३ । तथैव तैजसान्याह - 'केवइया णं भंते! तेयगेत्यादि, एतानि बद्धान्यनन्तानि भवन्ति, कालतोऽनन्तोत्सर्पिण्यवसर्पिणीसमयराशिसङ्ख्यानि क्षेत्रतोऽनन्तलोकप्रदेशराशिमानानि द्रव्यतः सिद्धेभ्योऽनन्तगुणानि अनन्तभागन्यून सर्वजीवसङ्ख्याप्रमाणानि, तत्स्वामिनामनन्तत्वात् नन्वौदारिकस्यापि खामिनो विद्यन्तेऽनन्ता न च तान्येतावत्सङ्ख्यान्युक्तानि अत्रोच्यते, औदारिकं मनुष्यतिरश्चामेव भवति, तत्रापि | साधारणशरीरिणामनन्तानामेकैकमेव, इदं चतुर्गतिकानामप्यस्ति, साधारणशरीरिणां च प्रतिजीवमेकैकं प्राप्यते, ततस्तैजसानि सर्वसंसारि जीवसङ्ख्यानि भवन्ति, संसारिणश्च जीवाः सिद्धेभ्योऽनन्तगुणाः, अत एतान्यपि सिद्धेभ्योऽनन्तगुणान्युक्तानि सर्वजीवसङ्ख्यां तु न प्राप्नुवन्ति, सिद्धजीवानां तदसम्भवात्, सिद्धाश्च | शेषजीवानामनन्तभागे वर्तन्ते, अतः सिद्धजीवलक्षणेनानन्तभागेन हीना ये सर्वजीवास्तत्सङ्ख्यान्यभिहितानि, मुक्तान्यपि अनन्तानि, कालतोऽनन्तोत्सर्पिण्यवसर्पिणीस मयराशितुल्यानि, क्षेत्रतोऽनन्तलोकानां ये प्रदेशास्तत्तुल्यानि द्रव्यतः सर्वजीवेभ्योऽनन्तगुणानि, तर्हि जीवराशिनैव जीवराशिर्गुणितो जीववर्गो भण्यते, एतावत्सङ्ख्यानि तानि भवन्ति ?, नेत्याह - 'जीववग्गस्स अनंतभागोत्ति, सर्वजीवाः सद्भावतोऽनन्ता अपि
For P&Pale City
~408~