________________
आगम
(४५)
प्रत
सूत्रांक
[१३८]
गाथा:
II--II
दीप अनुक्रम [२७५
-२७९]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः)
मूलं [ १३८] / गाथा ||१०३...||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
रसौ समितिः, तासां समागमेन-एकवस्तुनिर्वर्तनाय मीलनेन उपरितनपक्ष्मोत्पद्यते, समुदायवाचकत्वेनैकार्था वा समुदयादयः तस्मादसावुपरितनैकपक्ष्मच्छेदनकालः समयो न भवति, कस्तर्हि समय इत्याह- 'एत्तोऽवि अणमित्यादि, एतस्माद् उपरितनैकपक्ष्मच्छेदनकालात् सूक्ष्मतरः समयः प्रज्ञप्तो हे! श्रमणायुष्मन्निति, अत्राहननु यद्यनन्तैः परमाणुसङ्घातैः पक्ष्म निष्पद्यते ते च सङ्घाताः क्रमेण छिद्यन्ते तचैकस्मिन्नपि पक्ष्मणि विदार्यमाणे अनन्ताः समया लगेयुः, एतचागमेन सह विरुध्यते, तत्रासङ्ख्ये या स्वप्युत्सर्पिण्यवसर्पिणीषु समयासङ्ख्येयकस्यैव प्रतिपादनात्, यत उक्तम्- "असंखेजासु णं भंते! उस्सप्पिणिअवसप्पिणी केवईया स मया पण्णत्ता ?, गोयमा!, असंखेजा, अनंतासु णं भंते! उस्सप्पिणिअवसप्पिणीसु केवइया समया पण्णसा?, गोयमा !, अनंता" तदेतत्कथम्, अत्रोच्यते, अस्त्येतत्, किन्तु पाटनप्रवृत्तपुरुषप्रयत्नस्याचिन्त्यशक्तित्वात् प्रतिसमयमनन्तानां सङ्घातानां छेदः संपद्यते, एवं च सत्येकस्मिन् समये यावन्तः सङ्घातारिछ्यन्ते तैरनन्तैरपि स्थूलतर एक एव सङ्घातो विवश्यते, एवम्भूताः स्थूलतरसङ्गाता एकस्मिन्पक्ष्मणि असङ्ख्येया एव भवन्ति तेषां च क्रमेण छेदने असङ्ख्येयैः समयैः पक्ष्म छिद्यते, अतो न कश्चिद्विरोधः, इत्थं च विशेपतः सूत्रे अनुक्तमप्यवश्यं प्रतिपत्तव्यम्, अन्यथा ग्रन्थान्तरैः सह विरोधप्रसङ्गात् सूत्राणां च सूचामात्र १] असल्यास भदन्त उत्सर्पिण्यवसर्पिणीषु कियन्तः समयाः प्रज्ञताः ! गौतम असल्येवाः, अनन्तासु भदन्त उत्सर्पिव्यवसर्पिणीषु कियन्तः समयाः प्राप्ताः गौतम! अनन्ताः,
For P&Praise Cly
~366~